०३६ बल-विस्मृतिः

ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः।
शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥ 7.36.1 ॥
चलकुण्डलमौलिस्रक्तपनीयविभूषणः।
पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ॥ 7.36.2 ॥
तं तु वेदविदा तेन लम्बाभरणशोभिना।
वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥ 7.36.3 ॥
स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मयोनिना।
जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥ 7.36.4 ॥
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा।
चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥ 7.36.5 ॥
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिताऽभवन्।
शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥ 7.36.6 ॥
ततस्त्रियुग्मस्त्रिककुत्€ित्रधामा त्रिदशार्चितः।
उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥ 7.36.7 ॥
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः।
जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥ 7.36.8 ॥
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति।
तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ॥ 7.36.9 ॥
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः।
कुशेशयमयीं मालामुत्क्षिप्येदं वचोऽब्रवीत् ॥ 7.36.10 ॥
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः।
नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥ 7.36.11 ॥
अहमस्य प्रदास्यामि परमं वरमद्भुतम्।
इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ॥ 7.36.12 ॥
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः।
तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् ॥ 7.36.13 ॥
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति।
तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ॥ 7.36.14 ॥
वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति।
वर्षायुतशतेनापि मत्पाशादुदकादपि ॥ 7.36.15 ॥
यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः।
वरं ददामि सन्तुष्ट अविषादं च संयुगे ॥ 7.36.16 ॥
गदेयं मामिका नैनं संयुगेषु वधिष्यति।
इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥ 7.36.17 ॥
मत्तो मदायुधानां च न वध्योऽयं भविष्यति।
इत्येवं शङ्करेणापि दत्तोऽस्य परमो वरः ॥ 7.36.18 ॥
सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति।
दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ॥ 7.36.19 ॥
विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम्।
शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ॥ 7.36.20 ॥
मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे।
तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ॥ 7.36.21 ॥
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम्।
चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥ 7.36.22 ॥
अमित्राणां भयकरो मित्राणामभयङ्करः।
अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥ 7.36.23 ॥
कामरूपः कामचारी कामगः प्लवतां वरः।
भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ॥ 7.36.24 ॥
रावणोत्सादनार्थानि रामप्रियकरणि च।
रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥ 7.36.25 ॥
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह।
यथागतं ययुः सर्वे पितामहपुरोगमाः ॥ 7.36.26 ॥
सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत्।
अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥ 7.36.27 ॥
प्राप्य राम वरानेष वरदानसमन्वितः।
बलेनात्मनि संस्थेन सोऽपूर्यत यथाऽर्णवः ॥ 7.36.28 ॥
तरसा पूर्यमाणोऽपि तदा वानरपुङ्गवः।
आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥ 7.36.29 ॥
स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान्।
भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ॥ 7.36.30 ॥
एवंविधानि कर्माणि प्रावर्तत महाबलः।
सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ॥ 7.36.31 ॥
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ॥ 7.36.32 ॥
यथा केसरिणा त्वेष वायुना सोऽञ्जनासुतः।
प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः ॥ 7.36.33 ॥
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः।
शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ॥ 7.36.34 ॥
तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः।
यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥ 7.36.35 ॥
ततस्स हृततेजौजा महर्षिवचनौजसा।
एषोश्रमाणि तान्येव मृदुभावं गतोऽचरत् ॥ 7.36.36 ॥
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता।
सर्ववानरराजाऽऽसीत्तेजसा भास्करप्रभः ॥ 7.36.37 ॥
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः।
स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ॥ 7.36.38 ॥
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः।
पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ॥ 7.36.39 ॥
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम्।
आबाल्यं सख्यमभवदनिलस्याग्निना यथा ॥ 7.36.40 ॥
एष शापवशादेव न वेद बलमात्मनः।
वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥ 7.36.41 ॥
न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिना ॥ 7.36.42 ॥
देव जानाति न ह्येष बलमात्मनि मारुतिः।
ऋषिशापाहृतबलस्तदैष कपिसत्तमः ॥ 7.36.43 ॥
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ॥ 7.36.44 ॥
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च।
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोऽस्ति लोके ॥ 7.36.45 ॥
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः।
उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥ 7.36.46 ॥
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः।
नह्यस्य कश्चित्सदृशोऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥ 7.36.47 ॥
सर्वासु विद्यासु तपोविधाने प्रस्पर्धतेऽयो हि गुरुं सुराणाम्।
सोऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ॥ 7.36.48 ॥
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य युगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ 7.36.49 ॥
एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः।
सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥ 7.36.50 ॥
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि।
हनूमतो बालभावे कर्मैतत्कथितं मया ॥ 7.36.51 ॥
श्रुत्वाऽगस्त्यस्य कथितं रामः सौमित्रिरेव च।
विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ॥ 7.36.52 ॥
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया।
दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ॥ 7.36.53 ॥
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः।
प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ॥ 7.36.54 ॥
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः।
युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ॥ 7.36.55 ॥
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः।
तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ॥ 7.36.56 ॥
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः।
क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ॥ 7.36.57 ॥
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत्।
भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥ 7.36.58 ॥
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान्।
अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ॥ 7.36.59 ॥
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः।
अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥ 7.36.60 ॥
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ॥ 7.36.61 ॥
[अभिवाद्य महात्मानो राघवेण विसर्जिताः।] राघवश्च तमेवार्थं चिन्तयामास विस्मितः ॥ 7.36.62 ॥
सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः।
प्रवृत्तायां रजन्यां तु सोऽन्तःपुरचरोऽभवत् ॥ 7.36.63 ॥