०३५ सूर्य-बुभुक्षा

अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम्।
प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥ 7.35.1 ॥
अतुलं बलमेतद्वै वालिनो रावणस्य च।
न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ 7.35.2 ॥
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्।
विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ 7.35.3 ॥
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम्।
समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ 7.35.4 ॥
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा।
दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ 7.35.5 ॥
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः।
एते हनुमता तत्र ह्येकेन वितिपातिताः ॥ 7.35.6 ॥
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम्।
लङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ 7.35.7 ॥
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च।
कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ 7.35.8 ॥
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः।
प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ 7.35.9 ॥
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा।
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ 7.35.10 ॥
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया।
तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ 7.35.11 ॥
नहि वेदितवान्मन्ये हनूमानात्मनो बलम्।
यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ 7.35.12 ॥
एतन्मे भगवन्सर्वं हनूमति महामतौ।
विस्तरेण यथातत्त्वं कथयामरपूजित ॥ 7.35.13 ॥
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा।
हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ 7.35.14 ॥
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः।
न बले विद्यते तुल्यो न गतौ न मतौ परः ॥ 7.35.15 ॥
अमोघशापैः शप्तस्तु दत्तोऽस्य मुनिभिः पुरा।
न वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥ 7.35.16 ॥
बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल।
तन्न वर्णयितुं शक्यमिति बालतयाऽऽस्यते ॥ 7.35.17 ॥
यदि वाऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव।
समाधाय मतिं राम निशामय वदाम्यहम् ॥ 7.35.18 ॥
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः।
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ 7.35.19 ॥
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता।
जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ 7.35.20 ॥
शालिशूकनिभाभासं प्रासूतामुं तदाऽञ्जना।
फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ 7.35.21 ॥
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः।
रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ 7.35.22 ॥
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्।
ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ 7.35.23 ॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान्।
ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ 7.35.24 ॥
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति।
देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ 7.35.25 ॥
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा।
यथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ 7.35.26 ॥
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः।
यौवनं बलमासाद्य कथं वेगो भविष्यति ॥ 7.35.27 ॥
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः।
सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ 7.35.28 ॥
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम्।
पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ 7.35.29 ॥
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः।
कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ 7.35.30 ॥
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः।
तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ 7.35.31 ॥
अनेन स परामृष्टो राम सूर्यरथोपरि।
अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ 7.35.32 ॥
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः।
अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ 7.35.33 ॥
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव।
किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ 7.35.34 ॥
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः।
अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ 7.35.35 ॥
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः।
उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥ 7.35.36 ॥
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम्।
शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ 7.35.37 ॥
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम्।
प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ 7.35.38 ॥
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम्।
अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥ 7.35.39 ॥
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च।
उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ 7.35.40 ॥
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम्।
अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥ 7.35.41 ॥
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः।
इन्द्र इन्द्रेति सन्त्रासान्मुहुर्महुरभाषत ॥ 7.35.42 ॥
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम्।
श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ 7.35.43 ॥
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि।
फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ 7.35.44 ॥
तथास्य धावतो रूपमैरावतजिघृक्षया।
मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ 7.35.45 ॥
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः।
हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ 7.35.46 ॥
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः।
पतमानस्य चैतस्य वामो हनुरभज्यत ॥ 7.35.47 ॥
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले।
चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ 7.35.48 ॥
प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः।
गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ 7.35.49 ॥
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत्।
रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ 7.35.50 ॥
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः।
सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ 7.35.51 ॥
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम्।
वायुप्रकोपात्€त्रैलोक्यं निरयस्थमिवाभवत् ॥ 7.35.52 ॥
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः।
प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ 7.35.53 ॥
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः।
त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ 7.35.54 ॥
त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः।
सोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ 7.35.55 ॥
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः।
तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥ 7.35.56 ॥
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः।
कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥ 7.35.57 ॥
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च।
प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ 7.35.58 ॥
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः।
राहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥ 7.35.59 ॥
अशरीरः शरीरेषु वायुश्चरति पालयन्।
शरीरं हि विना वायुं समतां याति दारुभिः ॥ 7.35.60 ॥
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत्।
वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ 7.35.61 ॥
अद्यैव च परित्यक्तं वायुना जगदायुषा।
अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ 7.35.62 ॥
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः।
मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ 7.35.63 ॥
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः।
जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ 7.35.64 ॥
ततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः।
चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ 7.35.65 ॥