अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः।
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः ॥ 7.34.1 ॥
राक्षसं वा मनुष्यं वा शृणुतेऽयं बलाधिकम्।
रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः ॥ 7.34.2 ॥
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम्।
गत्वा ह्वयति युद्धाय वालिनं हेममालिनम् ॥ 7.34.3 ॥
ततस्तु वानरामात्यस्तारस्तारापिता प्रभुः।
उवाच वानरो वाक्यं युद्धप्रेप्सुमुपागतम् ॥ 7.34.4 ॥
राक्षसेन्द गतो वाली यस्ते प्रतिबलो भवेत्।
कोऽन्यः प्रमुखतः स्थातुं तव शक्तः प्लवङ्गमः ॥ 7.34.5 ॥
चतुर्भ्योऽपि समुद्रेभ्यः सन्ध्यामन्वास्य रावण।
इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम् ॥ 7.34.6 ॥
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः।
युद्धार्थिनामिमे राजन्वानराधिपतेजसा ॥ 7.34.7 ॥
यद्वाऽमृतरसः पीतस्त्वया रावण राक्षस।
तदा वालिनमासाद्य तदन्तं तव जीवितम् ॥ 7.34.8 ॥
पश्येदानीं जगच्चित्रमिमं विश्रवसः सुत।
इदं मुहूर्तं तिष्ठस्व दुर्लभं ते भविष्यति ॥ 7.34.9 ॥
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम्।
वालिनं द्रक्ष्यसे तत्र भूमिस्थमिव पावकम् ॥ 7.34.10 ॥
स तु तारं विनिर्भर्त्स्य रावणो लोकरावणः।
पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् ॥ 7.34.11 ॥
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम्।
रावणो वालिनं दृष्ट्वा सन्ध्योपासनतत्परम् ॥ 7.34.12 ॥
पुष्पकादवरुह्याथ रावणोऽञ्जनसन्निभः।
ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाव्रजत् ॥ 7.34.13 ॥
यदृच्छया तदा दृष्टो वालिनापि स रावणः।
पापाभिप्रायवान् दृष्ट्वा चकार न तु सम्भ्रमम् ॥ 7.34.14 ॥
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा।
न चिन्तयति तं वाली रावणं पापनिश्चयम् ॥ 7.34.15 ॥
जिघृक्षमाणमायान्तं रावणं पापचेतसम्।
कक्षावलम्बिनं कृत्वा गमिष्ये त्रीन्महार्णवान् ॥ 7.34.16 ॥
द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसदूरुकराम्बरम्।
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् ॥ 7.34.17 ॥
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः।
जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव ॥ 7.34.18 ॥
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ।
प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ ॥ 7.34.19 ॥
हस्तग्राहं तु तं मत्वा पादशब्देन रावणम्।
पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः ॥ 7.34.20 ॥
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः।
खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् ॥ 7.34.21 ॥
तं चापीडयमानं तु वितुदन्तं नखैर्मुहुः।
जहार रावणं वाली पवनस्तोयदं यथा ॥ 7.34.22 ॥
अथ ते राक्षसामात्या ह्रियमाणं दशाननम्।
मुमोक्षयिषवो वालिं रवमाणा अभिद्रुताः ॥ 7.34.23 ॥
अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः।
अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् ॥ 7.34.24 ॥
तेऽशक्नुवन्तः सम्प्राप्तुं वालिनं राक्षसोत्तमाः।
तस्य बाहूरुवेगेन परिश्रान्ता व्यवस्थिताः ॥ 7.34.25 ॥
वालिमार्गादपाक्रामन्पर्वतेन्द्रो हि गच्छतः।
किं पुनर्जीवितप्रेप्सुर्बिभ्रद्वै मांसशोणितम् ॥ 7.34.26 ॥
अपक्षिगणसम्पातान्वानरेन्द्रो महाजवः।
क्रमशः सागरान्सर्वान्सन्ध्याकालमवन्दत ॥ 7.34.27 ॥
सभाज्यमानो भूतैस्तु खैचरैः खैचरोत्तमः।
पश्चिमं सागरं वाली ह्याजगाम सरावणः ॥ 7.34.28 ॥
तस्मिन्सन्ध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः।
उत्तरं सागरं प्रायाद्वहमानो दशाननम् ॥ 7.34.29 ॥
बहुयोजनसाहस्रं वहमानो महाहरिः।
वायुवच्च मनोवच्च जगाम सह शत्रुणा ॥ 7.34.30 ॥
उत्तरे सागरे सन्ध्यामुपासित्वा दशाननम्।
वहमानोऽगमद्वाली पूर्वं वै स महोदधिम् ॥ 7.34.31 ॥
तत्रापि सन्ध्यामन्वास्य वासविः सहरीश्वरः।
किष्किन्धामभितो गृह्य रावणं पुनरागमत् ॥ 7.34.32 ॥
चतुर्ष्वपि समुद्रेषु सन्ध्यामन्वास्य वानरः।
रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥ 7.34.33 ॥
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः।
कुतस्त्वमिति चोवाच प्रहसन्रावणं मुहुः ॥ 7.34.34 ॥
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः।
राक्षसेन्द्रो हरीन्द्रं तमिदं वचनमब्रवीत् ॥ 7.34.35 ॥
वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः।
युद्धेप्सुरिह सम्प्राप्तः स चाद्यासादितस्त्वया ॥ 7.34.36 ॥
अहो बलमहो वीर्यमहो गाम्भीर्यमेव च।
येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान् ॥ 7.34.37 ॥
एवमश्रान्तवद्वीर शीघ्रमेव महार्णवान्।
मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति ॥ 7.34.38 ॥
त्रयाणामेव भूतानां गतिरेषा प्लवङ्गम।
मनोनिलसुपर्णानां तव चात्र न संशयः ॥ 7.34.39 ॥
सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुङ्गव।
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः ॥ 7.34.40 ॥
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम्।
सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥ 7.34.41 ॥
ततः प्रज्वालयित्वाग्निं तावुभौ हरीराक्षसौ।
भ्रातृत्वमुपसम्पन्नौ परिष्वज्य परस्परम् ॥ 7.34.42 ॥
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ।
किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव ॥ 7.34.43 ॥
स तत्र मासमुषितः सुग्रीव इव रावणः।
अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः ॥ 7.34.44 ॥
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो।
धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ ॥ 7.34.45 ॥
बलमप्रतिमं राम वालिनोऽभवदुत्तमम्।
सोऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा ॥ 7.34.46 ॥