०३३ रावण-मोचनम्

रावणग्रहणं तत्तु वायुग्रहणसन्निभम्।
ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ 7.33.1 ॥
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः।
माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥ 7.33.2 ॥
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः।
पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ॥ 7.33.3 ॥
सोऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम्।
प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ 7.33.4 ॥
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम्।
ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ॥ 7.33.5 ॥
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः।
शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ 7.33.6 ॥
पुरोहितोऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च।
पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ 7.33.7 ॥
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम्।
अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ 7.33.8 ॥
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च।
पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ 7.33.9 ॥
अद्यैवममरावत्या तुल्या माहिष्मती कृता।
अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥ 7.33.10 ॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः।
यस्माद्देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव ॥ 7.33.11 ॥
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम्।
ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ 7.33.12 ॥
तं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम्।
पुलस्त्योवाच राजानं हैहयानां तथाऽर्जुनम् ॥ 7.33.13 ॥
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन।
अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ 7.33.14 ॥
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ।
सोऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ 7.33.15 ॥
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया।
मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् ॥ 7.33.16 ॥
पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचोऽर्जुनः।
मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ 7.33.17 ॥
स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः।
अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ 7.33.18 ॥
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान्।
परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ 7.33.19 ॥
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः।
मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ॥ 7.33.20 ॥
एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम्।
पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ 7.33.21 ॥
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन।
नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ॥ 7.33.22 ॥
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम्।
पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ 7.33.23 ॥