०३२ रावण-बन्धनम्

नर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः।
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ 7.32.1 ॥
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः।
क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ 7.32.2 ॥
तासां मध्यगतो राजा रराज च तदार्जुनः।
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ 7.32.3 ॥
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम्।
रुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ 7.32.4 ॥
कार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम्।
कूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ 7.32.5 ॥
समीननक्रमकरः सपुष्पकुशसंस्तरः।
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ 7.32.6 ॥
स वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः।
पुष्पोपहारं सकलं रावणस्य जहार ह ॥ 7.32.7 ॥
रावणोऽर्धसमाप्तं तमुत्सृज्य नियमं तदा।
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ 7.32.8 ॥
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम्।
वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ 7.32.9 ॥
ततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम्।
निर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ 7.32.10 ॥
सव्येतरकराङ्गुल्या सशब्दं च दशाननः।
वेगप्रभावमन्वेष्टुं सोऽदिशच्छुकसारणौ ॥ 7.32.11 ॥
तौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ।
व्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ 7.32.12 ॥
अर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ।
पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ 7.32.13 ॥
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम्।
मदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ 7.32.14 ॥
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम्।
गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ 7.32.15 ॥
बालानां वरनारीणां सहस्रेण समावृतम्।
समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ 7.32.16 ॥
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ।
सन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ 7.32.17 ॥
बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर।
नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ 7.32.18 ॥
तेन बाहुसहस्रेण सन्निरुद्धजला नदी।
सागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ॥ 7.32.19 ॥
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ।
रावणोऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ 7.32.20 ॥
अर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे।
चण्डः प्रवाति पवनः सनादः सुरजास्तथा ॥ 7.32.21 ॥
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः।
महोदरमहापार्श्वधूम्राक्षशुकसारणैः ॥ 7.32.22 ॥
अदीर्घेणैव कालेन स तदा राक्षसो बली।
तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ॥ 7.32.23 ॥
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम्।
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥ 7.32.24 ॥
स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥ 7.32.25 ॥
इत्येवमर्जुनामात्यनाह गम्भीरया गिरा।
अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ॥ 7.32.26 ॥
रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते।
उत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ॥ 7.32.27 ॥
युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ॥ 7.32.28 ॥
स्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसेऽर्जुनम्।
वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ 7.32.29 ॥
क्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया।
युद्धे श्रद्धा च यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ 7.32.30 ॥
यद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता।
निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ 7.32.31 ॥
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु।
सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ 7.32.32 ॥
ततो हलहलाशब्दो नर्मदातीर आबभौ।
अर्जुनस्यानुयातॄणां रावणस्य च मन्त्रिणाम् ॥ 7.32.33 ॥
इषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः।
सरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥ 7.32.34 ॥
हैहयाधिपयोधानां वेग आसीत्सुदारुणः।
सनक्रमीनमकरसमुद्रस्येव निःस्वनः ॥ 7.32.35 ॥
रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः।
कार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ॥ 7.32.36 ॥
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः।
क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ 7.32.37 ॥
श्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततोऽर्जुनः।
उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ 7.32.38 ॥
क्रोधदूषितनेत्रस्तु स ततोऽर्जुनपावकः।
प्रजज्वाल महाघोरो युगान्त इव पावकः ॥ 7.32.39 ॥
स तूर्णतरमादाय वरहेमाङ्गदो गदाम्।
अभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ 7.32.40 ॥
बाहुविक्षेपकरणां समुद्यम्य महागदाम्।
गारुडं वेगमास्थाय चापपातैव सोऽर्जुनः ॥ 7.32.41 ॥
तस्य मार्गं समारुद्ध्य विन्ध्योऽर्कस्येव पर्वतः।
स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ 7.32.42 ॥
ततोऽस्य मुसलं घोरं लोहबद्धं महोद्धतः।
प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥ 7.32.43 ॥
तस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः।
प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ 7.32.44 ॥
अथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः।
निपुणं वञ्चयामास सगदोऽगदविक्रमः ॥ 7.32.45 ॥
ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः।
भ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ 7.32.46 ॥
तथा हतोऽतिवेगेन प्रहस्तो गदया तदा।
निपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥ 7.32.47 ॥
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः।
समहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ 7.32.48 ॥
अपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते।
रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ 7.32.49 ॥
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम्।
नृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ॥ 7.32.50 ॥
सागराविव संरब्धौ चलन्मूलाविवाचलौ।
तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ 7.32.51 ॥
बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ।
मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ 7.32.52 ॥
रुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ।
परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ 7.32.53 ॥
वज्रप्रहारानचला यथा घोरान्विषेहिरे।
गदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ 7.32.54 ॥
यथाऽ शनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः।
तथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ 7.32.55 ॥
अर्जुनस्य गदा सा तु पात्यमानाऽहितोरसि।
काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ॥ 7.32.56 ॥
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः।
अर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ 7.32.57 ॥
नार्जुनः खेदमायाति न राक्षसगणेश्वरः।
इदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ 7.32.58 ॥
शृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ।
परस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ 7.32.59 ॥
ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा।
स्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ 7.32.60 ॥
वरदानकृतत्राणे सा गदा रावणोरसि।
दुर्बलेव यथावेगं द्विधाभूत्वाऽपतत्क्षितौ ॥ 7.32.61 ॥
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः।
अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥ 7.32.62 ॥
स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः।
सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ 7.32.63 ॥
स तु बाहुसहस्रेण बलाद्गृह्य दशाननम्।
बबन्ध बलवान्राजा बलिं नारायणो यथा ॥ 7.32.64 ॥
बध्यमाने दशग्रीवे सिद्धचारणदेवताः।
साध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ 7.32.65 ॥
व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम्।
ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ 7.32.66 ॥
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम्।
सह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ 7.32.67 ॥
नक्तञ्चराणां वेगस्तु तेषामापततां बभौ।
उद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ 7.32.68 ॥
मुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत्।
मुसलानि सशूलानि सोत्ससर्ज तदार्जुने ॥ 7.32.69 ॥
अप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः।
आयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ 7.32.70 ॥
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः।
भित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ 7.32.71 ॥
राक्षसांस्त्रासयित्वा तु कार्तवीर्योऽर्जुनस्तदा।
रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ 7.32.72 ॥
स कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः।
तदाऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ 7.32.73 ॥