ततो रामो महातेजा विस्मयात्पुनरेव हि।
उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ 7.31.1 ॥
भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम्।
पर्यटत्किं तदा लोकाः शून्या आसन्द्विजोत्तम ॥ 7.31.2 ॥
राजा वा राजमात्रो वा किं तदा नात्र कश्चन।
धर्षणं यत्र न प्राप्तो रावणो राक्षसेश्वरः ॥ 7.31.3 ॥
उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः।
बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः ॥ 7.31.4 ॥
राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः।
उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ 7.31.5 ॥
इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ।
चचार रावणो राम पृथिवीं पृथिवीपते ॥ 7.31.6 ॥
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम्।
सम्प्राप्तो यत्र सान्निध्यं सदासीद्वसुरेतसः ॥ 7.31.7 ॥
तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः।
अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥ 7.31.8 ॥
तमेव दिवसं सोऽथ हैहयाधिपतिर्बली।
अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ 7.31.9 ॥
तमेव दिवसं सोऽथ रावणस्तत्र आगतः।
रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥ 7.31.10 ॥
रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह।
ममागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥ 7.31.11 ॥
इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः।
अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ 7.31.12 ॥
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम्।
अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ॥ 7.31.13 ॥
स तमभ्रमिवाविष्टमुद्भ्रन्तमिव मेदिनीम्।
अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥ 7.31.14 ॥
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम्।
प्रपातपतितैस्तोयैः साट्टहासमिवाम्बुधिम् ॥ 7.31.15 ॥
देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः।
स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ॥ 7.31.16 ॥
नदीभिः स्यन्दमानाभिः स्फटिकप्रतिमं जलम्।
फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ॥ 7.31.17 ॥
उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम्।
पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ॥ 7.31.18 ॥
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ॥ 7.31.19 ॥
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः।
उष्णाभितप्तैस्तृषितैः सङ्क्षोभितजलाशयाम् ॥ 7.31.20 ॥
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः।
सारसैश्च सदा मत्तैः सुकूजद्भिः समावृताम् ॥ 7.31.21 ॥
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम्।
विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ॥ 7.31.22 ॥
जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम्।
पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ॥ 7.31.23 ॥
इष्टामिव वरां नारीमवगाह्य दशाननः।
स तस्याः पुलिने रम्ये नानामुनिनिषेविते ॥ 7.31.24 ॥
उपोपविष्टैः सचिवैः सार्धं राक्षसपुङ्गवः।
प्रख्याय नर्मदां सोऽथ गङ्गेयमिति रावणः ॥ 7.31.25 ॥
नर्मदादर्शजं हर्षमाप्तवान् राक्षसाधिपः।
उवाच सचिवांस्तत्र सलीलं शुकसारणौ ॥ 7.31.26 ॥
एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम्।
तीक्ष्णतापकरः सूर्यो नभसोऽर्धं समाश्रितः ॥ 7.31.27 ॥
मामासीनं विदित्वैव चन्द्रायति दिवाकरः ॥ 7.31.28 ॥
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः।
मद्भयादनिलोऽप्यत्र वात्येष सुसमाहितः ॥ 7.31.29 ॥
इयं वापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी।
नक्रमीनविहङ्गोर्मिः सभयेवाङ्गना स्थिता ॥ 7.31.30 ॥
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि।
चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ 7.31.31 ॥
महापद्ममुखा मत्ता गङ्गामिव गहागजाः।
अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ 7.31.32 ॥
अहमप्यद्य पुलिने शरदिन्दुसमप्रभे।
पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥ 7.31.33 ॥
रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः।
समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥ 7.31.34 ॥
राक्षसेन्द्रगजैस्तैस्तु क्षोभिता नर्मदा नदी।
वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः ॥ 7.31.35 ॥
ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः।
उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥ 7.31.36 ॥
नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे।
राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ॥ 7.31.37 ॥
पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः।
अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ 7.31.38 ॥
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम्।
नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥ 7.31.39 ॥
ततः क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम्।
रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ॥ 7.31.40 ॥
यत्र यत्र च याति स्म रावणो राक्षसेश्वरः।
जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥ 7.31.41 ॥
वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः।
अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥ 7.31.42 ॥
ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम्।
समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ॥ 7.31.43 ॥