०३० इन्द्र-मोचनम्

जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै।
प्रजापतिं पुरस्कृत्य ययुर्लङ्कां सुरास्तदा ॥ 7.30.1 ॥
तत्र रावणमासाद्य पुत्रभ्रातृभिरावृतम्।
अब्रवीद्गगने तिष्ठन्सामपूर्वं प्रजापतिः ॥ 7.30.2 ॥
वत्स रावण तुष्टोऽस्मि पुत्रस्य तव संयुगे।
अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा ॥ 7.30.3 ॥
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा।
कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै ॥ 7.30.4 ॥
अयं च पुत्रोऽतिबलस्तव रावण वीर्यवान्।
जगतीन्द्रजिदित्येव परिख्यातो भविष्यति ॥ 7.30.5 ॥
बलवान्दुर्जयश्चैव भविष्यत्येव राक्षसः।
यं समाश्रित्य ते राजन्स्थापितास्त्रिदशा वशे ॥ 7.30.6 ॥
तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः।
किञ्चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः ॥ 7.30.7 ॥
अथाब्रवीन्महातेजा इन्द्रजित्समितिञ्जयः।
अमरत्वमहं देव वृणे यद्येष मुच्यते ॥ 7.30.8 ॥
चतुष्पदां खेचराणामन्येषां वा महौजसाम्।
वृक्षगुल्मक्षुपलतातृणोपलमहीभृताम् ॥ 7.30.9 ॥
सर्वेऽपि जन्तवोऽन्योन्यं भेतव्ये सति बिभ्यति।
अतोऽत्र लोके सर्वेषां सर्वस्माच्च भवेद्भयम् ॥ 7.30.10 ॥
नास्ति सर्वामरत्वं हि कस्यचित्प्राणिनो भुवि।
चतुष्पदः पक्षिणश्च भूतानां वा महौजसाम् ॥ 7.30.11 ॥
श्रुत्वा पितामहेनोक्तमिन्द्रजित्प्रभुणाव्ययम् ॥ 7.30.12 ॥
अथाब्रवीत्स तत्रस्थं मेघनादो महाबलः।
श्रूयतां वा भवेत्सिद्धिः शतक्रतुविमोक्षणे ॥ 7.30.13 ॥
ममेष्टं नित्यशो हर्व्यैर्मन्त्रैः सम्पूज्य पावकम्।
सङ्ग्राममवतर्त्तुं च शत्रुनिर्जयकाङ्क्षिणः ॥ 7.30.14 ॥
अश्वयुक्तो रथो मह्यमुत्तिष्ठेत्तु विभावसोः।
तत्स्थस्यामरता स्यान्मे एष मे निश्चयो वरः ॥ 7.30.15 ॥
तस्मिन्यद्यसमाप्ते च जप्यहोमे विभावसौ।
युध्येयं देव सङ्ग्रामे तदा मे स्याद्विनाशनम् ॥ 7.30.16 ॥
सर्वो हि तपसा देव वृणोत्यमरतां पुमान्।
विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् ॥ 7.30.17 ॥
एवमस्त्विति तं चाह वाक्यं देवः पितामहः।
मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः ॥ 7.30.18 ॥
एतस्मिन्नन्तरे राम दीनो भ्रष्टाम्बरद्युतिः।
इन्द्रश्चिन्तापरीतात्मा ध्यानतत्परतां गतः ॥ 7.30.19 ॥
तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः।
शतक्रतो किमु पुरा करोति स्म सुदुष्कृतम् ॥ 7.30.20 ॥
अमरेन्द्र मया बह्व्यः प्रजाः सृष्टास्तथा प्रभो।
एकवर्णाः समाभाषा एकरूपाश्च सर्वशः ॥ 7.30.21 ॥
तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा।
ततोऽहमेकाग्रमनास्ताः प्रजाः परिचिन्तयम् ॥ 7.30.22 ॥
सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे।
यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ 7.30.23 ॥
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता।
हलं नामेह वैरूपं हल्यं तत्प्रभवं भवेत् ॥ 7.30.24 ॥
यस्मान्न विद्यते हल्यं तेनाहल्येति विश्रुता।
अहल्येति मया शक्र तस्या नाम प्रवर्तितम् ॥ 7.30.25 ॥
निर्मितायां च देवेन्द्र तस्यां नार्यां सुरर्षभ।
भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् ॥ 7.30.26 ॥
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो।
स्थानाधिकतया पत्नी ममैषेति पुरन्दर ॥ 7.30.27 ॥
सा मया न्यासभूता तु गौतमस्य महात्मनः।
न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ॥ 7.30.28 ॥
ततस्तस्य परिज्ञाय महास्थैर्यं महामुनेः।
ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ॥ 7.30.29 ॥
सङ्क्रुद्धस्त्वं हि धर्मात्मन् गत्वा तस्याश्रमं मुनेः।
दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥ 7.30.30 ॥
सा त्वया धर्षिता शक्र कामार्तेन समन्युना।
दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ॥ 7.30.31 ॥
ततः क्रुद्धेन तेनाऽसि शप्तः परमतेजसा।
गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् ॥ 7.30.32 ॥
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम्।
तस्मात्त्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ॥ 7.30.33 ॥
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः।
मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥ 7.30.34 ॥
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति।
न च ते स्थावरं स्थानं भविष्यति न संशयः ॥ 7.30.35 ॥
यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति।
एष शापो मया मुक्त इत्यसौ त्वां तदाऽब्रवीत् ॥ 7.30.36 ॥
तां तु भार्यां स निर्भर्त्स्य सोऽब्रवीत्सुमहातपाः।
दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ॥ 7.30.37 ॥
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता।
तस्माद्रूपवती लोके न त्वमेका भविष्यति ॥ 7.30.38 ॥
रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः।
यत्तदेकं समाश्रित्य विभ्रमोऽयमुपस्थितः ॥ 7.30.39 ॥
तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः।
सा तं प्रसादयामास महर्षिं गौतमं तदा ॥ 7.30.40 ॥
अज्ञानाद्धर्षिता विप्र त्वद्रूपेण दिवौकसा।
न कामकाराद्विप्रर्षे प्रसादं कर्तुमर्हसि ॥ 7.30.41 ॥
अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः।
उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ॥ 7.30.42 ॥
ब्राह्मणार्थे महाबाहुर्विष्णुर्मानुषविग्रहः।
तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि ॥ 7.30.43 ॥
स हि पावयितुं शक्तस्त्वया यद्दुष्कृतं कृतम्।
तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ॥ 7.30.44 ॥
वत्स्यसि त्वं मया सार्धं तदा हि वरवर्णिनि।
एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् ॥ 7.30.45 ॥
तपश्चाचार सुमहत्सा पत्नी ब्रह्मवादिनः।
शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् ॥ 7.30.46 ॥
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम्।
तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव ॥ 7.30.47 ॥
शीघ्रं वै यज यज्ञं त्वं वैष्णवं सुसमाहितः।
पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ॥ 7.30.48 ॥
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे।
नीतः सन्निहितश्चैव आर्यकेण महोदधौ ॥ 7.30.49 ॥
एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम्।
पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ॥ 7.30.50 ॥
एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया।
निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये तु किं पुनः ॥ 7.30.51 ॥
आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा।
अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ॥ 7.30.52 ॥
विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत्।
आश्चर्यं स्मारितोऽस्म्यद्य यत्तद्दृष्टं पुरातनम् ॥ 7.30.53 ॥
अगस्त्यं त्वब्रवीद्रामः सत्यमेतच्छ्रुतं च मे ॥ 7.30.54 ॥
एवं राम समुद्भूतो रावणो लोककण्टकः।
सपुत्रो येन सङ्ग्रामे जितः शक्रः सुरेश्वरः ॥ 7.30.55 ॥