०२९ इन्द्र-पराजयः

ततस्तमसि सञ्जाते सर्वे ते देवराक्षसाः।
अयुद्ध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ 7.29.1 ॥
ततस्तु देवसैन्येन राक्षसानां बृहद्बलम्।
दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ 7.29.2 ॥
तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः।
अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ 7.29.3 ॥
इन्द्रश्च रावणश्चैव रावणिश्च महाबलः।
तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ 7.29.4 ॥
स तु दृष्ट्वा बलं सर्वं रावणो निहतं क्षणात्।
क्रोधमभ्यगमत्तीव्रं महानादं च मुक्तवान् ॥ 7.29.5 ॥
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह।
परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ 7.29.6 ॥
अद्यैतान् त्रिदशान्सर्वान्विक्रमैः समरे स्वयम्।
नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ 7.29.7 ॥
त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि।
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ 7.29.8 ॥
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ 7.29.9 ॥
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम्।
नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ 7.29.10 ॥
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान्।
आदिदेशाथ शत्रणां मध्येनैव च सारथिः ॥ 7.29.11 ॥
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा।
रथस्थः समरस्थस्तान्देवान्वाक्यमथाब्रवीत् ॥ 7.29.12 ॥
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते।
जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ 7.29.13 ॥
एष ह्यतिबलः सैन्यै रथेन पवनौजसा।
गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि ॥ 7.29.14 ॥
नह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः।
तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ 7.29.15 ॥
यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया।
एवमेतस्य पापस्य निरोधो मम रोचते ॥ 7.29.16 ॥
ततोऽन्यं देशमास्थाय शक्रः सन्त्यज्य रावणम्।
अयुध्यत महाराज राक्षसांस्त्रासयन्रणे ॥ 7.29.17 ॥
उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः।
दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः ॥ 7.29.18 ॥
ततः स योजनशतं प्रविष्टो राक्षसाधिपः।
देवतानां बलं सर्वं शरवर्षैरवाकिरत् ॥ 7.29.19 ॥
ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम्।
न्यवर्तयदसम्भ्रान्तः समावृत्य दशाननम् ॥ 7.29.20 ॥
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः।
हा हताः स्म इति ग्रस्तं दृष्ट्वा शक्रेण रावणम् ॥ 7.29.21 ॥
ततो रथं समास्थाय रावणिः क्रोधमूर्च्छितः।
तत्सैन्यमतिसङ्क्रुद्धः प्रविवेश सुदारुणम् ॥ 7.29.22 ॥
तां प्रविश्य महामायां प्राप्तां गोपतिना पुरा।
प्रविवेश सुसंरब्धस्तत्सैन्यं समभिद्रवत् ॥ 7.29.23 ॥
स सर्वा देवतास्त्यक्त्वा शक्रमेवाभ्यधावत।
महेन्द्रश्च महातेजा नापश्यच्च सुतं रिपोः ॥ 7.29.24 ॥
विमुक्तकवचस्तत्र वध्यमानोऽपि रावणिः।
त्रिदशैः सुमहावीर्यैर्न चकार च किञ्चन ॥ 7.29.25 ॥
स मातलिं समायान्तं ताडयित्वा शरोत्तमैः।
महेन्द्रं बाणवर्षेण भूय एवाभ्यवाकिरत् ॥ 7.29.26 ॥
ततस्त्यक्त्वा रथं शक्रो विससर्ज च सारथिम्।
ऐरावतं समारुह्य मृगयामास रावणिम् ॥ 7.29.27 ॥
स तत्र मायाबलवानदृश्योऽथान्तरिक्षगः।
इन्द्रं मायापरिक्षिप्तं कृत्वा स प्राद्रवच्छरैः ॥ 7.29.28 ॥
स तं यदा परिश्रान्तमिन्द्रं जज्ञेऽथ रावणिः।
तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् ॥ 7.29.29 ॥
तं तु दृष्ट्वा बलात्तेन नीयमानं महारणात्।
महेन्द्रममराः सर्वे किं नु स्यादित्यचिन्तयन् ॥ 7.29.30 ॥
दृश्यते न स मायावी शक्रजित्समितिञ्जयः।
विद्यावानपि येनेन्द्रो मायया नीयते बलात् ॥ 7.29.31 ॥
एतस्मिन्नन्तरे क्रुद्धाः सर्वे सुरगणास्तदा।
रावणं विमुखीकृत्य शरवर्षैरवाकिरन् ॥ 7.29.32 ॥
रावणस्तु समासाद्य आदित्यांश्च वसूंस्तदा।
न शशाक स सङ्ग्रामे योद्धुं शत्रुभिरर्दितः ॥ 7.29.33 ॥
स तं दृष्ट्वा परिम्लानं प्रहारैर्जर्जरीकृतम्।
रावणिः पितरं युद्धे दर्शनस्थोऽब्रवीदिदम् ॥ 7.29.34 ॥
आगच्छ तात गच्छामो रणकर्म निवर्तताम्।
जितं नो विदितं तेऽस्तु स्वस्थो भव गतज्वरः ॥ 7.29.35 ॥
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः।
स गृहीतो दैवबलाद्भग्नदर्पाः सुराः कृताः ॥ 7.29.36 ॥
यथेष्टं भुङ्क्ष्व लोकांस्त्रीन्निगृह्यारातिमोजसा।
वृथा किं ते श्रमेणेह युद्धमद्य तु निष्फलम् ॥ 7.29.37 ॥
ततस्ते दैवतगणा निवृत्ता रणकर्मणः।
तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेताः बभूव ह ॥ 7.29.38 ॥
अथ स रणविगतज्वरः प्रभुर्विजयमवाप्य निशाचराधिपः।
स्वभवनमभितो जगाम हृष्टः स्वसुतमवाप्य च वाक्यमब्रवीत् ॥ 7.29.39 ॥
अतिबलसदृशैः पराक्रमैस्तैर्मम कुलमानविवर्धनं कृतम्।
यदयमतुल्यबलस्त्वयाद्य वै त्रिदशपतिस्त्रिदशाश्च निर्जिताः ॥ 7.29.40 ॥
नय रथमधिरोप्य वासवं नगरमितो व्रज सेनया वृतस्त्वम्।
अहमपि तव गच्छतो द्रुतं सह सचिवैरनुयामि पृष्ठतः ॥ 7.29.41 ॥
अथ स बलवृतः सवाहनस्त्रिदशपतिं परिगृह्य रावणिः।
स्वभवनमभिगम्य वीर्यवान्कृतसमरान्विससर्ज राक्षसान् ॥ 7.29.42 ॥