सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम्।
स्वसैन्यं विद्रुतं चापि लक्षयित्वाऽर्दितं सुरैः ॥ 7.28.1 ॥
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा।
निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ 7.28.2 ॥
सुरथेनाग्निवर्णेन कामगेन महारथः।
अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ 7.28.3 ॥
ततः प्रविशतस्तस्य विविधायुधधारिणः।
विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ 7.28.4 ॥
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे।
सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान् ॥ 7.28.5 ॥
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः।
एष गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ 7.28.6 ॥
ततः शक्रसुतो देवो जयन्त इति विश्रुतः।
रथेनाद्भुतकल्पेन सङ्ग्रामे सोऽभ्यवर्तत ॥ 7.28.7 ॥
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम्।
रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ॥ 7.28.8 ॥
तेषां युद्धं समभवत्सदृशं देवरक्षसाम्।
महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ 7.28.9 ॥
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः।
सारथौ पातयामास शरान्कनकभूषणान् ॥ 7.28.10 ॥
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम्।
तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥ 7.28.11 ॥
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः।
रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ 7.28.12 ॥
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः।
पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ॥ 7.28.13 ॥
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान्।
महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ 7.28.14 ॥
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमोऽभवत्।
तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ 7.28.15 ॥
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम्।
बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ 7.28.16 ॥
नाभ्यजानन्त चान्योन्यं रक्षो वा देवताऽथवा।
तत्र तत्र विपर्यस्तं समन्तात्परिधावति ॥ 7.28.17 ॥
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा।
सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ॥ 7.28.18 ॥
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान्।
दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रोऽपवाहितः ॥ 7.28.19 ॥
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा।
आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ॥ 7.28.20 ॥
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः।
अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ॥ 7.28.21 ॥
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः।
अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ 7.28.22 ॥
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम्।
मातलिं चाह देवेशो रथः समुपनीयताम् ॥ 7.28.23 ॥
स तु दिव्यो महाभीमः सज्ज एव महारथः।
उपस्थितो मातलिना वाह्यमानो महाजवः ॥ 7.28.24 ॥
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः।
अग्रतो वायुचपला नेदुः परमनिःस्वनाः ॥ 7.28.25 ॥
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः।
ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ 7.28.26 ॥
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः।
वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ 7.28.27 ॥
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ।
भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ॥ 7.28.28 ॥
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान्।
आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ 7.28.29 ॥
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः।
तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ॥ 7.28.30 ॥
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः।
समराभिमुखो दैत्यो महेन्द्रं सोऽभ्यवर्तत ॥ 7.28.31 ॥
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः।
सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ 7.28.32 ॥
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह।
शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ 7.28.33 ॥
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः।
नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ॥ 7.28.34 ॥
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः।
येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ 7.28.35 ॥
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः।
प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ॥ 7.28.36 ॥
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक्।
विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ॥ 7.28.37 ॥
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः।
रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ॥ 7.28.38 ॥
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले।
वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥ 7.28.39 ॥
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे।
शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ॥ 7.28.40 ॥
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः।
देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ॥ 7.28.41 ॥
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः।
निहतानां प्रमत्तानां राक्षसानां महीतले ॥ 7.28.42 ॥
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला।
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ 7.28.43 ॥
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान्।
निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ॥ 7.28.44 ॥
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम्।
त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ॥ 7.28.45 ॥
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम्।
यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ॥ 7.28.46 ॥
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि।
निपातयामास शरान्पावकादित्यवर्चसः ॥ 7.28.47 ॥
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः।
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ 7.28.48 ॥
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः।
न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ॥ 7.28.49 ॥