कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः।
आससाद महातेजा इन्द्रलोकं निशाचरः ॥ 7.27.1 ॥
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः।
देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ॥ 7.27.2 ॥
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात्।
अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ॥ 7.27.3 ॥
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान्।
सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ॥ 7.27.4 ॥
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि।
सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ॥ 7.27.5 ॥
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति।
विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ॥ 7.27.6 ॥
विष्णो कथं करिष्यामि महावीर्यपराक्रमः।
असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ॥ 7.27.7 ॥
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना।
तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ॥ 7.27.8 ॥
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ।
त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ॥ 7.27.9 ॥
नह्यन्यो देवदेवेश त्वामृते मधुसूदन।
गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ॥ 7.27.10 ॥
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः।
त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ॥ 7.27.11 ॥
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्।
त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ॥ 7.27.12 ॥
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम्।
अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ॥ 7.27.13 ॥
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः।
अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ॥ 7.27.14 ॥
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः।
हन्तुं चापि समासाद्य वरदानेन दुर्जयः ॥ 7.27.15 ॥
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः।
राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ॥ 7.27.16 ॥
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर।
नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ॥ 7.27.17 ॥
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते।
दुर्लभश्चैव कामोऽद्य वरगुप्ताद्धि रावणात् ॥ 7.27.18 ॥
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो।
भविताऽस्मि यथाऽस्याहं रक्षसो मृत्युकारणम् ॥ 7.27.19 ॥
देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम्।
एतत्ते कथितं तत्त्वं देवराज शचीपते ॥ 7.27.20 ॥
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ॥ 7.27.21 ॥
ततो रुद्राः सहादित्या वसवो मरुतोऽश्वनौ।
सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ॥ 7.27.22 ॥
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये।
तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ॥ 7.27.23 ॥
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै।
सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ॥ 7.27.24 ॥
ततो दैवतसैन्यनां सङ्क्षोभः समजायत।
तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ॥ 7.27.25 ॥
ततो युद्धं समभवेद्देवदानवरक्षसाम्।
घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ॥ 7.27.26 ॥
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः।
युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ॥ 7.27.27 ॥
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ।
अकम्पनो निकुम्भश्च शुकः सारण एव च ॥ 7.27.28 ॥
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः।
जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ॥ 7.27.29 ॥
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः।
त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥ 7.27.30 ॥
महाकायोऽतिकायश्च देवान्तकनरान्तकौ।
एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥ 7.27.31 ॥
स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः।
व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ॥ 7.27.32 ॥
तद्दैवतबलं राम हन्यमानं निशाचरैः।
प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ॥ 7.27.33 ॥
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः।
सावित्र इति विख्यातः प्रविवेश रणाजिरम् ॥ 7.27.34 ॥
तथाऽऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ।
निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ॥ 7.27.35 ॥
ततो युद्धं समभवत्सुराणां सह राक्षसैः।
क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ॥ 7.27.36 ॥
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान्।
नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ॥ 7.27.37 ॥
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान्।
समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ॥ 7.27.38 ॥
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः।
नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोऽभ्यवर्तत ॥ 7.27.39 ॥
स दैवतबलं सर्वं नानाप्रहणैः शितैः।
व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ॥ 7.27.40 ॥
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः।
हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ 7.27.41 ॥
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना।
वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ॥ 7.27.42 ॥
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम्।
विक्रमेण महातेजा वारयामास संयुगे ॥ 7.27.43 ॥
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ॥ 7.27.44 ॥
ततस्तस्य महाबाणैर्वसुना सुमहात्मना।
निहतः पन्नगरथः क्षणेन विनिपातितः ॥ 7.27.45 ॥
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम्।
गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ 7.27.46 ॥
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम्।
तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ॥ 7.27.47 ॥
सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा।
इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ॥ 7.27.48 ॥
तस्य नैवास्थि न शिरो न मांसं ददृशे तदा।
गदया भस्मतां नीतं निहतस्य रणाजिरे ॥ 7.27.49 ॥
व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम्।
विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥ 7.27.50 ॥