०२६ नल-कूबर-शापः

स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान्।
अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ 7.26.1 ॥
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि।
प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥ 7.26.2 ॥
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि।
स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ॥ 7.26.3 ॥
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा।
पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ 7.26.4 ॥
चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः।
तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ॥ 7.26.5 ॥
एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे।
किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ॥ 7.26.6 ॥
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥ 7.26.7 ॥
विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः।
योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ॥ 7.26.8 ॥
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः।
अप्सरोगणसङ्घानां गायतां धनदालये ॥ 7.26.9 ॥
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः।
शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ 7.26.10 ॥
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम्।
प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः ॥ 7.26.11 ॥
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात्।
प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ 7.26.12 ॥
रावणस्तु महावीर्यः कामस्य वशमागतः।
विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ॥ 7.26.13 ॥
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता।
सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥ 7.26.14 ॥
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा।
दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥ 7.26.15 ॥
चक्षुर्मनोहरं पीनं मेखलादामभूषितम्।
समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ॥ 7.26.16 ॥
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ॥ 7.26.17 ॥
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम्।
नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥ 7.26.18 ॥
ऊरू करिकराकारौ करौ पल्लवकोमलौ।
सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥ 7.26.19 ॥
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः।
करे गृहीत्वा लज्जन्तीं स्मयमानोऽभ्यभाषत ॥ 7.26.20 ॥
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम्।
कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ॥ 7.26.21 ॥
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः।
सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति ॥ 7.26.22 ॥
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ।
कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ॥ 7.26.23 ॥
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु।
अध्यारोहति कस्तेऽद्य जघनं स्वर्गरूपिणम् ॥ 7.26.24 ॥
मद्विशिष्टः पुमान्कोऽद्य शक्रो विष्णुरथाश्विनौ।
मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ॥ 7.26.25 ॥
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ॥ 7.26.26 ॥
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥ 7.26.27 ॥
तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः।
भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ॥ 7.26.28 ॥
एवमुक्ताऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः।
प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ 7.26.29 ॥
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि।
तद्धर्मतः स्नुषा तेऽहं तत्त्वमेव ब्रवीमि ते ॥ 7.26.30 ॥
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम्।
रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥ 7.26.31 ॥
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः।
बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ॥ 7.26.32 ॥
पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते।
विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥ 7.26.33 ॥
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत्।
क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥ 7.26.34 ॥
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै।
तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ॥ 7.26.35 ॥
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥ 7.26.36 ॥
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ॥ 7.26.37 ॥
स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः।
तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥ 7.26.38 ॥
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव।
माननीयो मम त्वं हि पालनीया तथाऽस्मि ते ॥ 7.26.39 ॥
स्नुषाऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः।
देवलोकस्थितिरियं सुराणां शाश्वती मता ॥ 7.26.40 ॥
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ 7.26.41 ॥
एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले।
कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥ 7.26.42 ॥
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा।
गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥ 7.26.43 ॥
लुलिताकुलकेशान्ता करवेपितपल्लवा।
पवनेनावधूतेव लता कुसुमशालिनी ॥ 7.26.44 ॥
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः।
नलकूबरमासाद्य पादयोर्निपपात ह ॥ 7.26.45 ॥
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः।
अब्रवीत्किमिदं भद्रे पादयोः पतिताऽसि मे ॥ 7.26.46 ॥
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः।
तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ॥ 7.26.47 ॥
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम्।
तेन सैन्यसहायेन निशेयं परिणामिता ॥ 7.26.48 ॥
आयन्ती तेन दृष्टाऽस्मि त्वत्सकाशमरिन्दम।
गृहीता तेन पृष्टाऽस्मि कस्य त्वमिति रक्षसा ॥ 7.26.49 ॥
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम्।
काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥ 7.26.50 ॥
याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो।
तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ॥ 7.26.51 ॥
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत।
न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ॥ 7.26.52 ॥
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः।
धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ॥ 7.26.53 ॥
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः।
मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ॥ 7.26.54 ॥
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि।
उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ॥ 7.26.55 ॥
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता।
तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥ 7.26.56 ॥
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम्।
मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥ 7.26.57 ॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता।
पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥ 7.26.58 ॥
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः।
ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥ 7.26.59 ॥
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम्।
नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥ 7.26.60 ॥
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः।
नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥ 7.26.61 ॥