०२५ मधु-सङ्गमनम्

स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत्।
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥ 7.25.1 ॥
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम्।
तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥ 7.25.2 ॥
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम्।
ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ॥ 7.25.3 ॥
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम्।
ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥ 7.25.4 ॥
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः।
अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ॥ 7.25.5 ॥
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये।
रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ 7.25.6 ॥
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत्।
यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ॥ 7.25.7 ॥
अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः।
राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ॥ 7.25.8 ॥
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे।
वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥ 7.25.9 ॥
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम्।
मायां च तामसीं नाम यया सम्पद्यते तमः ॥ 7.25.10 ॥
एतया किल सङ्ग्रामे मायया राक्षसेश्वर।
प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ॥ 7.25.11 ॥
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम्।
अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ॥ 7.25.12 ॥
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्तेऽयं दशानन।
अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ॥ 7.25.13 ॥
ततोऽब्रवीदृशग्रीवो न शोभनमिदं कृतम्।
पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥ 7.25.14 ॥
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः।
आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ॥ 7.25.15 ॥
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः।
स्त्रियोऽवतारयामास सर्वास्ता बाष्पगद्गदाः ॥ 7.25.16 ॥
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम्।
तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ॥ 7.25.17 ॥
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः।
धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ॥ 7.25.18 ॥
ज्ञातींस्तान्धर्षयित्वेमास्त्वयाऽऽनीता वराङ्गनाः।
त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ॥ 7.25.19 ॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम्।
कोऽयं यस्तु त्वयाऽऽख्यातो मधुरित्येव नामतः ॥ 7.25.20 ॥
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत्।
श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ 7.25.21 ॥
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः।
माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ॥ 7.25.22 ॥
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यकोऽभवत्।
तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत् ॥ 7.25.23 ॥
मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा।
भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ॥ 7.25.24 ॥
सा हृता, मधुना राजन्राक्षसेन बलीयसा।
यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ॥ 7.25.25 ॥
कुम्भकर्णे महाराज निद्रामनुभवत्यथ।
निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ॥ 7.25.26 ॥
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव।
श्रुत्वाऽपि तन्महाराज क्षान्तमेव हतो न सः ॥ 7.25.27 ॥
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः।
तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ॥ 7.25.28 ॥
विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः।
दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ॥ 7.25.29 ॥
ततोऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः।
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ॥ 7.25.30 ॥
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः।
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ॥ 7.25.31 ॥
अद्य तं समरे हत्वा मधुं रावणनिर्भयम्।
सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ॥ 7.25.32 ॥
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम्।
नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ 7.25.33 ॥
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च।
जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥ 7.25.34 ॥
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत्।
शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ 7.25.35 ॥
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः।
राक्षसाः प्रययुः सर्वे कृत्वाऽऽकाशं निरन्तरम् ॥ 7.25.36 ॥
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः।
रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥ 7.25.37 ॥
स तु गत्वा मधुपुरं प्रविश्य च दशाननः।
न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ॥ 7.25.38 ॥
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ॥ 7.25.39 ॥
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा।
तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ॥ 7.25.40 ॥
साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज।
भर्तारं न ममेहाद्य हन्तुर्महसि मानद ॥ 7.25.41 ॥
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते।
भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥ 7.25.42 ॥
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम्।
त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥ 7.25.43 ॥
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्।
क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ॥ 7.25.44 ॥
सह तेन गमिष्यामि सुरलोकं जयावहे।
तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात् ॥ 7.25.45 ॥
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम्।
अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ॥ 7.25.46 ॥
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः।
सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥ 7.25.47 ॥
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस।
स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ॥ 7.25.48 ॥
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥ 7.25.49 ॥
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः।
पूजयमास धर्मेण रावणं राक्षसाधिपम् ॥ 7.25.50 ॥
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान्।
तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ 7.25.51 ॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम्।
राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ॥ 7.25.52 ॥