निवर्तमानः संहृष्टो रावणस्सुदुरात्मवान्।
जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ 7.24.1 ॥
दर्शनीयां हि रक्षः स कन्यां स्त्रीं वापि पश्यति।
हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ॥ 7.24.2 ॥
एवं पन्नगकन्याश्च राक्षसासुरमानुषीः।
यक्षदानवकन्याश्च विमाने सोऽध्यरोपयत् ॥ 7.24.3 ॥
ताश्च सर्वाः समं दुःखान्मुमुचुर्बाष्पजं जलम्।
तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसम्भवम् ॥ 7.24.4 ॥
ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः।
आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः ॥ 7.24.5 ॥
नागगन्धर्वकन्याश्च महर्षितनयाश्च याः।
दैत्यदानवकन्याश्च विमाने शतशोऽरुदन् ॥ 7.24.6 ॥
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः।
पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ 7.24.7 ॥
रथकूबरसङ्काशैः श्रोणिदेशैर्मनोहराः।
स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः ॥ 7.24.8 ॥
शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः।
तासां निश्वासवातेन सर्वतः सम्प्रदीपितम् ॥ 7.24.9 ॥
अग्निहोत्रमिवाभाति सन्निरुद्धाग्निपुष्पकम्।
दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः ॥ 7.24.10 ॥
दीनवक्रेक्षणाः श्यामा मृग्यः सिंहवशा इव।
काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ॥ 7.24.11 ॥
इति मातृपितॄन्स्मृत्वा भर्तॄन्भ्रातॄंस्तथैव च।
दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः ॥ 7.24.12 ॥
कथं नु खलु मे पुत्रो भविष्यति मया विना।
कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥ 7.24.13 ॥
हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना।
मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ॥ 7.24.14 ॥
किन्नु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ 7.24.15 ॥
एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे।
न खल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ॥ 7.24.16 ॥
अहो धिङ्मानुषं लोकं नास्ति खल्वधमः परः।
यद्दुर्बला बलवता भर्तारो रावणेन नः ॥ 7.24.17 ॥
सूर्येणोदयता काले नक्षत्राणीव नाशिताः।
अहो सुबलवद्रक्षो वधोपायेषु युज्यते ॥ 7.24.18 ॥
अहो दुर्वृत्तमास्थाय नात्मानं वैजुगुप्सते।
सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः ॥ 7.24.19 ॥
इदं त्वसदृशं कर्म परदाराभिमर्शनम्।
यस्मादेष परक्यासु रमते राक्षसाधमः ॥ 7.24.20 ॥
तस्माद्वै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम्।
सतीभिर्वरनारीभिरेवं वाक्येऽभ्युदीरिते ॥ 7.24.21 ॥
नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च।
शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः ॥ 7.24.22 ॥
एवं विलपितं तासां शृण्वन्राक्षसपुङ्गवः।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ 7.24.23 ॥
एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी।
सहसा पतिता भूमौ भगिनी रावणस्य सा ॥ 7.24.24 ॥
तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन्।
अब्रवीत्किमिदं भद्रे वक्तुकामाऽसि मे द्रुतम् ॥ 7.24.25 ॥
सा बाष्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमब्रवीत्।
कृताऽस्मि विधवा राजंस्त्वया बलवता बलात् ॥ 7.24.26 ॥
एते राजंस्त्वया वीरा दैत्या विनिहता रणे।
कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥ 7.24.27 ॥
प्राणेभ्योऽपि गरीयान्मे तत्र भर्ता महाबलः ॥ 7.24.28 ॥
सोऽपि त्वया हतस्तात रिपुणा भ्रातृगृध्नुना।
त्वयाऽस्मि निहता राजन्स्वयमेव हि बन्धुना ॥ 7.24.29 ॥
ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि।
स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ 7.24.30 ॥
एवमुक्तो दशग्रीवो भगिन्या क्रोशमानया।
अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ 7.24.31 ॥
अलं वत्से रुदित्वा ते न भेतव्यं च सर्वशः।
दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥ 7.24.32 ॥
युद्धप्रमत्तो व्याक्षिप्तो जयाकाङ्क्षी क्षिपञ्छरान्।
नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे ॥ 7.24.33 ॥
जामातरं न जाने स्म प्रहरन्युद्धदुर्मदः।
तेनासौ निहतः सङ्ख्ये मया भर्ता तव स्वसः ॥ 7.24.34 ॥
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम्।
भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥ 7.24.35 ॥
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति।
प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ॥ 7.24.36 ॥
तत्र मातृष्वसेयस्ते भ्राताऽयं वै खरः प्रभुः।
भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥ 7.24.37 ॥
शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम्।
दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः ॥ 7.24.38 ॥
तत्र ते वचनं शूरः करिष्यति सदा खरः।
रक्षसां कामरूपाणां प्रभुरेष भविष्यति ॥ 7.24.39 ॥
एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह।
चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥ 7.24.40 ॥
स तैः परिवृतस्सर्वै राक्षसैर्घोरदर्शनैः।
आगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥ 7.24.41 ॥
स तत्र कारयामास राज्यं निहतकण्टकम्।
सा च शूर्पणखा तत्र न्यवसद्दण्डकावने ॥ 7.24.42 ॥