०२३ वरुण-पराजयः

ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम्।
रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ॥ 7.23.1 ॥
ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम्।
रावणं राक्षसा दृष्ट्वा ह्यष्टवत् समुपागमन् ॥ 7.23.2 ॥
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः।
पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥ 7.23.3 ॥
ततो रसातलं गच्छन् प्रविष्टः पयसां निधिम्।
दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥ 7.23.4 ॥
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम्।
कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ॥ 7.23.5 ॥
निवातकवचास्तत्र दैत्या लब्धवरा वसन्।
राक्षसान्तान्समागम्य युद्धाय समुपाह्वयत् ॥ 7.23.6 ॥
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः।
नानाप्रहरणास्तत्र प्रहृष्टा युद्धदुर्मदाः ॥ 7.23.7 ॥
शूलैस्त्रिशूलैः कुलिशैः पट्टिशासिपरश्वधैः।
अन्योन्यं बिभिदुः क्रुद्धा राक्षसा दानवास्तथा ॥ 7.23.8 ॥
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः।
न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा ॥ 7.23.9 ॥
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः।
आजगाम द्रुतं देवो विमानवरमास्थितः ॥ 7.23.10 ॥
निवातकवचानां तु निवार्य रणकर्म तत्।
वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥ 7.23.11 ॥
नह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः।
न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥ 7.23.12 ॥
राक्षसस्य सखित्वं च भवद्भिः सह रोचते।
अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ॥ 7.23.13 ॥
ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः।
निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ 7.23.14 ॥
अर्थतस्तैर्यथान्यायं संवत्सरमथोषितः।
स्वपुरान्निर्विशेषं च प्रियं प्राप्तो दशाननः ॥ 7.23.15 ॥
ततोपधार्य मायानां शतमेकं समाप्तवान्।
सलिलेन्द्रपुरान्वेषी भ्रमति स्म रसातलम् ॥ 7.23.16 ॥
ततोऽश्मनगरं नाम कालकेयैरधिष्ठितम्।
गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥ 7.23.17 ॥
श्यालं च बलवन्तं च विद्युज्जिह्वं बलोत्कटम्।
जिह्वया संलिहन्तं च राक्षसं समरे तथा ॥ 7.23.18 ॥
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् ॥ 7.23.19 ॥
ततः पाण्डुरमेघाभं कैलासमिव भास्वरम्।
वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥ 7.23.20 ॥
क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम्।
यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ॥ 7.23.21 ॥
ददर्श रावणस्तत्र गोवृषेन्द्रवरारणिम्।
यस्माच्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥ 7.23.22 ॥
यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः।
अमृतं यत्र चोत्पन्नं स्वधा च स्वधभोजिनाम् ॥ 7.23.23 ॥
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः।
प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम् ॥ 7.23.24 ॥
ततो धाराशताकीर्णं शारदाभ्रनिभं तदा।
नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ 7.23.25 ॥
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः।
अब्रवीच्च ततो योधान्राजा शीघ्रं निवेद्यताम् ॥ 7.23.26 ॥
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम्।
वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः ॥ 7.23.27 ॥
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः।
पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च ॥ 7.23.28 ॥
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः।
युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ॥ 7.23.29 ॥
ततो युद्धं समभवद्दारुणं रोमहर्षणम्।
सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ॥ 7.23.30 ॥
अमात्यैश्च महावीर्यैर्दशग्रीवस्य रक्षसः।
वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् ॥ 7.23.31 ॥
समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा।
अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥ 7.23.32 ॥
महीतलगतास्ते तु रावणं दृश्य पुष्पके।
आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥ 7.23.33 ॥
महादासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत्।
आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ 7.23.34 ॥
ततस्ते रावणं युद्धे शरैः पावकसन्निभैः।
विमुखीकृत्य सन्तुष्टा विनेदुर्विविधान्रवान् ॥ 7.23.35 ॥
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम्।
त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ॥ 7.23.36 ॥
तेन ते दारुणा युद्धे कामगाः पवनोपमाः।
महोदरेण गदया हता वै प्रययुः क्षितिम् ॥ 7.23.37 ॥
तेषां वरुणपुत्राणां हत्वा योधान्हयाञ्छतान्।
मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥ 7.23.38 ॥
ते तु तेषां रथाः साश्वाः सह सारथिभिर्हतैः।
महोदरेण निहताः पतिताः पृथिवीतले ॥ 7.23.39 ॥
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः।
आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥ 7.23.40 ॥
धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम्।
रावणं समरे क्रुद्धाः सहिताः समभिद्रवन् ॥ 7.23.41 ॥
सायकैश्चापविभ्रष्टैर्वज्रकल्पैः सुदारुणैः।
दारयन्ति स्म सङ्क्रुद्धा मेघा इव महागिरिम् ॥ 7.23.42 ॥
ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः।
शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ॥ 7.23.43 ॥
ततस्तेनैव सहसा सीदन्ति स्म पदातयः।
मुसलानि विचित्राणि ततो भल्लशतानि च ॥ 7.23.44 ॥
पट्टिशांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा।
पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ 7.23.45 ॥
अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः।
महापङ्कमिवासाद्य कुञ्जराष्षष्टिहायनाः ॥ 7.23.46 ॥
सीदमानान्सुतान्दृष्ट्वा विह्वलान्सुमहौजसः।
ननाद रावणो हर्षान्महानम्बुधरो यथा ॥ 7.23.47 ॥
ततो रक्षो महानादान्मुक्त्वा हन्ति स्म वारुणान्।
नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ॥ 7.23.48 ॥
ततस्ते विमुखाः सर्वे पतिता धरणीतले।
रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ 7.23.49 ॥
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥ 7.23.50 ॥
रावणं त्वब्रवीन्मन्त्री प्रहस्तो (प्रहसो) नाम वारुणः।
गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः ॥ 7.23.51 ॥
तत्किं तव वृथा वीर परिश्रम्य गते नृपे।
ये तु सन्निहिता वीराः कुमारास्ते पराजिताः ॥ 7.23.52 ॥
राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः।
हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥ 7.23.53 ॥
आगतस्तु पथा येन तेनैव विनिवृत्य सः।
लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ ॥ 7.23.54 ॥