स तस्य तु महानादं श्रुत्वा वैवस्वतः प्रभुः।
शत्रुं विजयिनं मेने स्वबलस्य च सङ्क्षयम् ॥ 7.22.1 ॥
स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः।
अब्रवीत्त्वरितं सूतं रथोऽयमुपनीयताम् ॥ 7.22.2 ॥
स्थितः स च महातेजा ह्यध्यारोहत तं रथम्।
प्राशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ॥ 7.22.3 ॥
कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत्।
यमप्रहरणं दिव्यं तेजसा ज्वलदग्निमत् ॥ 7.22.4 ॥
तस्य पार्श्वेषु निच्छिद्राः कालपाशाः प्रतिष्ठिताः ॥ 7.22.5 ॥
पावकस्पर्शसङ्काशः स्थितो मूर्तश्च मुद्गरः ॥ 7.22.6 ॥
ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः।
कालं दृष्ट्वा तथा क्रुद्धं सर्वलोकभयावहम् ॥ 7.22.7 ॥
ततः प्रचोदयन्सूतस्तानश्वान्रुचिरप्रभान्।
प्रययौ भीमसन्नादो यत्र रक्षःपतिः स्थितः ॥ 7.22.8 ॥
मुहूर्तेन यमं ते तु हया हरिहयोपमाः।
प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ 7.22.9 ॥
दृष्ट्वा तथैव विकृतं रथं मृत्युसमन्वितम्।
सचिवा राक्षसेन्द्रस्य सहसा विप्रदुद्रुवुः ॥ 7.22.10 ॥
लघुसत्त्वतया ते हि नष्टसञ्ज्ञा भयार्दिताः।
नेह योद्धुं समर्थाः स्म इत्युक्त्वा प्रययुर्दिशः ॥ 7.22.11 ॥
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम्।
नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ॥ 7.22.12 ॥
स तु रावणमासाद्य व्यसृजच्छक्तितोमरान्।
यमो मर्माणि सङ्क्रुद्धो रावणस्योपकृन्तत ॥ 7.22.13 ॥
रावणस्तु ततः स्वस्थः शरवर्षं मुमोच ह।
तस्मिन्वैवस्वतरथे तोयवर्षमिवाम्बुदः ॥ 7.22.14 ॥
ततो महाशक्तिशरैः पात्यमानैर्महोरसि (पात्यमानो)।
नाशक्नोत्प्रतिकर्तुं स राक्षसः शल्यपीडितः ॥ 7.22.15 ॥
एवं नानाप्रहरणैर्यमेनामित्रकर्षिणा।
सप्तरात्रं कृतः सङ्ख्ये विसञ्ज्ञो विमुखो रिपुः ॥ 7.22.16 ॥
तदासीत्तुमुलं युद्धं यमराक्षसयोर्द्वयोः।
जयमाकाङ्क्षतोर्वीर समरेष्वनिवर्तिनोः ॥ 7.22.17 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ 7.22.18 ॥
संवर्त इव लोकानां क्रुध्यतोरभवत्तदा।
राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ 7.22.19 ॥
राक्षसेन्द्रोऽपि विस्फार्य चापमिन्द्राशनिप्रभम्।
निरन्तरमिवाकाशं कुर्वन्बाणांस्ततोऽसृजत् ॥ 7.22.20 ॥
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरार्दयत्।
यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ 7.22.21 ॥
ततः क्रुद्धस्य वदनाद्यमस्य समजायत।
ज्वालामाली सनिःश्वासः सधूमः कोपपावकः ॥ 7.22.22 ॥
तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ।
प्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ 7.22.23 ॥
मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम्।
नैषा रक्षो भवेदद्य मर्यादा हि निसर्गतः ॥ 7.22.24 ॥
हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा।
विसन्धिर्धूमकेतुश्च बलिर्वैरोचनोऽपि च ॥ 7.22.25 ॥
दम्भुर्दैत्यमहाराजो वृत्रो बाणस्तथैव च।
राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ॥ 7.22.26 ॥
ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः।
युगान्तपरिवर्ते च पृथिवी समहार्णवा ॥ 7.22.27 ॥
क्षयं नीता महाराज सपर्वतसरिद्द्रुमा।
एते चान्ये च बहवो बलवन्तो दुरासदाः ॥ 7.22.28 ॥
विनिपन्ना मया दृष्टाः किमुतायं निशाचरः ॥ 7.22.29 ॥
मुञ्चं मां साधु धर्मज्ञ यावदेनं निहन्म्यहम्।
नहि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ 7.22.30 ॥
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः।
स दृष्टो न मया कालं मुहुर्तमापि जीवति ॥ 7.22.31 ॥
तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान्।
अब्रवीत्तत्र तं मुत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ 7.22.32 ॥
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः।
कालदण्डममोघं तु तोलयामास पाणिना ॥ 7.22.33 ॥
यस्य पार्श्वेषु निखिला कालपाशाः प्रतिष्ठिताः।
पावकाशनिसङ्काशो मुद्गरो मूर्तिमान्स्थितः ॥ 7.22.34 ॥
दर्शनादेव यः प्राणान्प्राणिनामपकर्षति।
किं पुनः स्पृश्यमानस्य पात्यमानस्य वा पुनः ॥ 7.22.35 ॥
स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम्।
तेन स्पृष्टो बलवता महाप्रहरणोऽस्फुरत् ॥ 7.22.36 ॥
ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे।
सुराश्च क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ 7.22.37 ॥
तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम्।
यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् ॥ 7.22.38 ॥
वैवस्वत महाबाहो न खल्वमितविक्रम।
न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ 7.22.39 ॥
वरः खलु मयैतस्मै दत्तस्त्रिदशपुङ्गव।
स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ 7.22.40 ॥
यो हि मामनृतं कुर्याद्देवो वा मानुषोऽपि वा।
त्रैलोक्यमनृतं तेन कृतं स्यान्नात्र संशयः ॥ 7.22.41 ॥
क्रुद्धेन विप्रमुक्तोऽयं निर्विशेषं प्रियाप्रिये।
प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ 7.22.42 ॥
अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः।
कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः ॥ 7.22.43 ॥
तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि।
नह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ 7.22.44 ॥
यदि ह्यन्मिन्निपतिते न म्रियेतैष राक्षसः।
म्रियते वा दशग्रीवस्तदाप्युभयतोऽनृतम् ॥ 7.22.45 ॥
तन्निवर्तय लङ्केशं द्दण्डमेतं समुद्यतम्।
सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ 7.22.46 ॥
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा।
एष व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ 7.22.47 ॥
किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि।
न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ 7.22.48 ॥
एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः।
इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ 7.22.49 ॥
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः।
आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसादनात् ॥ 7.22.50 ॥
स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः।
जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ 7.22.51 ॥