०२१ यम-भट-पराजयः

एवं सञ्चिन्त्य विप्रेन्दो जगाम लघुविक्रमः।
आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ॥ 7.21.1 ॥
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम्।
विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ 7.21.2 ॥
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम्।
अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः ॥ 7.21.3 ॥
कच्चित्क्षेमं तु देवर्षे कच्चिद्धर्मो न नश्यति।
किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ 7.21.4 ॥
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः।
श्रूयतामभिधास्यामि विधानं च विधीयताम् ॥ 7.21.5 ॥
एष नाम्नो दशग्रीवः पितृराज निशाचरः।
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ॥ 7.21.6 ॥
एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो।
दण्डप्रहरणस्याद्य तव किं नु भविष्यति ॥ 7.21.7 ॥
एतस्मिन्नन्तरे दुरादंशुमन्तमिवोदितम्।
ददृशुर्दीप्तमायान्तं विमानं तस्य रक्षसः ॥ 7.21.8 ॥
तं देशं प्रभया तस्य पुष्पकस्य महाबलः।
कृत्वा वितिमिरं सर्वं समीपं सोऽभ्यवर्तत ॥ 7.21.9 ॥
सोऽपश्यत्स महाबाहुर्दशग्रीवस्ततस्ततः।
प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् ॥ 7.21.10 ॥
अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह।
यमस्य पुरुषैरुग्रैर्घोररूपैर्भयानकैः ॥ 7.21.11 ॥
ददर्श वध्यमानांश्च क्लिश्यमानांश्च देहिनः।
क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ॥ 7.21.12 ॥
कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ 7.21.13 ॥
क्षोत्रायासकरा वाचो वदतश्च भयावहाः।
सन्तार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ 7.21.14 ॥
वालुकासु च तप्तासु तप्यमानान्मुहूर्मुहुः।
असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ 7.21.15 ॥
रौरवे क्षारनद्यां च क्षुरधारासु चैव हि।
पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ 7.21.16 ॥
शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान्।
मलपङ्कधरान्दीनान्रूक्षांश्च परिधावतः ॥ 7.21.17 ॥
कांश्चिच्च गृहमुख्येषु गीतवादित्रनिःस्वनैः।
प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः ॥ 7.21.18 ॥
गौरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः।
गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ॥ 7.21.19 ॥
सुवर्णमणिमुक्ताभिः प्रमदाभिरलङ्कृतान् ॥ 7.21.20 ॥
धार्मिकानपरांस्तत्र दीप्यमानान्स्वतेजसा।
ददर्श सुमहाबाहू रावणो राक्षसाधिपः ॥ 7.21.21 ॥
ततस्तान्भिद्यमानांश्च कर्मभिर्दुष्कृतैः स्वकैः।
रावणो मोचयामास विक्रमेण बलाद्बली ॥ 7.21.22 ॥
प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा।
सुखमापुर्मुहूर्तं ते ह्यतर्कितमचिन्तितम् ॥ 7.21.23 ॥
प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा।
प्रेतगोपाः सुसङ्क्रुद्धा राक्षसेन्द्रमभिद्रवन् ॥ 7.21.24 ॥
ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः।
धर्मराजस्य योधानां शूराणां सम्प्रधावताम् ॥ 7.21.25 ॥
ते प्रासैः परिघैः शूलैर्मुसलैः शक्तितोमरैः।
पुष्पकं समवर्षन्त शूराः शतसहस्रशः ॥ 7.21.26 ॥
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च।
पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव ॥ 7.21.27 ॥
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे।
भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ 7.21.28 ॥
असङ्ख्या सुमहत्यासीत्तस्य सेना महात्मनः।
शूराणामग्रयातॄणां सहस्राणि शतानि च ॥ 7.21.29 ॥
ततस्ते सचिवास्तस्य यथाकामं यथाबलम्।
अयुध्यन्त महावीराः स च राजा दशाननः ॥ 7.21.30 ॥
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः।
अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् ॥ 7.21.31 ॥
अन्योन्यं ते महाभागा जघ्नुः प्रहरणैर्भृशम्।
यमस्य च महाबाहो रावणस्य च मन्त्रिणः ॥ 7.21.32 ॥
अमात्यांस्तांस्तु सन्त्यज्य यमयोधा महाबलाः।
तमेव चाभ्यधावन्त शूलवर्षैर्दशाननम् ॥ 7.21.33 ॥
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः।
फुल्लाशोक इवाभाति पुष्पके राक्षसाधिपः ॥ 7.21.34 ॥
स तु शूलगदापासाञ्छक्तितोमरसायकान्।
मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली ॥ 7.21.35 ॥
तरूणां च शिलानां च शस्त्राणां चातिदारुणम्।
यमसैन्येषु तद्वर्षं पपात धरणीतले ॥ 7.21.36 ॥
तांस्तु सर्वान्विनिर्भिद्य तदस्त्रमपहत्य च।
जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ 7.21.37 ॥
परिवार्य च तं सर्वे शैलं मोघोत्करा इव।
भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमपोथयन् ॥ 7.21.38 ॥
विमुक्तकवचः क्रुद्धः सिक्तः शोणितविस्रवैः।
ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥ 7.21.39 ॥
ततः स कार्मुकी वाणी समरे चाभिवर्तत।
लब्धसञ्ज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः ॥ 7.21.40 ॥
ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके।
तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं विचकर्ष स ॥ 7.21.41 ॥
आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे।
मुमोच तं शरं क्रुद्धस्त्रिपुरे शङ्करो यथा ॥ 7.21.42 ॥
तस्य रूपं शरस्यासीत्विधूमज्वालमण्डलम्।
वनं दहिष्यतो घर्मे दावाग्नेरिव मूर्च्छतः ॥ 7.21.43 ॥
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे।
मुक्तो गुल्मान्द्रुमांश्चापि भस्म कृत्वा प्रधावति ॥ 7.21.44 ॥
ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु।
रणे तस्मिन्निपतिता दावदग्धा नगा इव ॥ 7.21.45 ॥
ततस्तु सिचवैः सार्धं राक्षसो भीमविक्रमः।
ननाद सुमहानादं कम्पयन्निव मेदिनीम् ॥ 7.21.46 ॥