ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः।
आससाद घने तस्मिन्नारदं मुनिपुङ्गवम् ॥ 7.20.1 ॥
तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः।
अब्रवीत्कुशलं पृष्ट्वा हेतुमागमनस्य च ॥ 7.20.2 ॥
नारदस्तु महातेजा देवर्षिरमितप्रभः।
अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ 7.20.3 ॥
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत।
प्रीतोऽस्म्यभिजनोपेतविक्रमैरूर्जितैस्तव ॥ 7.20.4 ॥
विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः।
त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ 7.20.5 ॥
श्रुत्वा चानन्तरं कार्यं त्वया राक्षससत्तम।
तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ 7.20.6 ॥
किमयं वध्यते तात त्वयाऽवध्येन दैवतैः।
हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ 7.20.7 ॥
देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम्।
अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ 7.20.8 ॥
नित्यं श्रेयसि सम्मूढं महद्भिर्व्यसनैर्वृतम्।
हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ 7.20.9 ॥
तैस्तैरनिष्टोपगमैरजस्रं यत्र कुत्र कः।
मतिमान्मानुषे लोके युद्धेन प्रणयी भवेत् ॥ 7.20.10 ॥
क्षीयमाणं दैवहतं श्रुत्पिपासाजरादिभिः।
विषादशोकसम्मूढं लोकं त्वं क्षपयस्व मा ॥ 7.20.11 ॥
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम्।
मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ 7.20.12 ॥
क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः।
रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ 7.20.13 ॥
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः।
मोहितोऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ 7.20.14 ॥
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम्।
जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ 7.20.15 ॥
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम्।
तन्निगृह्णीष्व पौलस्त्य यमं परपुरञ्जय ॥ 7.20.16 ॥
एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा।
अब्रवीन्नारदं तत्र सम्प्रहस्याभिवाद्य च ॥ 7.20.17 ॥
महर्षे देवगन्धर्वविहार समरप्रिय।
अहं समुद्यतो गन्तुं विजयार्थं रसातलम् ॥ 7.20.18 ॥
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे।
समुद्रममृतार्थं च मथिष्यामि रसालयम् ॥ 7.20.19 ॥
अथाब्रवीदृशग्रीवं नारदो भगवानृषिः।
क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ 7.20.20 ॥
अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति।
मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ 7.20.21 ॥
स तु शारदमेघाभं हासं मुक्त्वा दशाननः।
उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ 7.20.22 ॥
तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः।
गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ 7.20.23 ॥
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना।
अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ 7.20.24 ॥
तदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति।
प्राणिसङ्क्लेशकर्तारं योजयिष्यामि मृत्युना ॥ 7.20.25 ॥
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च।
प्रययौ दक्षिणामाशां प्रविष्टः सह मन्त्रिभिः ॥ 7.20.26 ॥
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः।
चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ 7.20.27 ॥
येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः।
क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥ 7.20.28 ॥
स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः।
लब्धसञ्ज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ 7.20.29 ॥
यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः।
तं कथं राक्षसेन्द्रोऽसौ स्वयमेव गमिष्यति ॥ 7.20.30 ॥
यो विधाता च धाता च सुकृतं दुष्कृतं तथा।
त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥ 7.20.31 ॥
अपरं किन्तु कृत्वायं विधानं संविधास्यति।
कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ॥ 7.20.32 ॥
विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ 7.20.33 ॥