अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः।
नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ 7.19.1 ॥
समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान्।
अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ 7.19.2 ॥
निर्जिताः स्मेति वा ब्रूत एष मे हि सुनिश्चयः।
अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ 7.19.3 ॥
मन्त्रयित्वा ततोऽन्योन्यं राजानः सुमहाबलाः।
निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ 7.19.4 ॥
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः।
एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ 7.19.5 ॥
अथायोध्यां समासाद्य रावणो राक्षसाधिपः ॥ 7.19.6 ॥
सुगुप्तामनरण्येन शक्रेणेवामरावतीम्।
स तं पुरुषशार्दूलं पुरन्दरसमं बले ॥ 7.19.7 ॥
प्राह राजानमासाद्य युद्धं देहीति रावणः।
निर्जितोऽस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ 7.19.8 ॥
अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः।
अनरण्यस्तु सङ्क्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ 7.19.9 ॥
दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया।
सन्तिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ 7.19.10 ॥
अथ पूर्वं श्रुतार्थेन निर्जितं सुमहद्बलम्।
निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम् ॥ 7.19.11 ॥
नागानां दशसाहस्रं वाजिनां नियुतं तथा।
रथानां बहुसाहस्रं पत्तीनां च नरोत्तम ॥ 7.19.12 ॥
महीं सञ्छाद्य निष्क्रान्तं सपदातिरथं रणे।
ततः प्रवृत्तं सुमहद्युद्धं युद्धविशारद ॥ 7.19.13 ॥
अनरण्यस्य नृपते राक्षसेन्द्रस्य चाद्भुतम्।
तद्रावणबलं प्राप्य बलं तस्य महीपतेः ॥ 7.19.14 ॥
प्राणश्यत तदा सर्वं हव्यं हुतमिवानले।
युद्ध्वा च सुचिरं कालं कृत्वा विक्रममुत्तमम् ॥ 7.19.15 ॥
प्राविशत्सङ्कुलं तत्र शलभा इव पावकम्।
नश्यति स्म बलं तत्र हव्यं हुतमिवानले ॥ 7.19.16 ॥
सोऽपश्यत्तन्नरेन्द्रस्तु नश्यमानं महाबलम्।
महार्णवं समासाद्य वनापगशतं यथा ॥ 7.19.17 ॥
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम्।
आससाद नरेन्द्रस्तं रावणं क्रोधमूर्च्छितः ॥ 7.19.18 ॥
अनरण्येन तेऽमात्या मारीचशुकसारणाः।
प्रहस्तसहिता भग्ना व्यद्रवन्त मृगा इव ॥ 7.19.19 ॥
ततो बाणशतान्यष्टौ पातयामास मूर्धनि।
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ 7.19.20 ॥
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित्।
वारिधारा इवाभ्रेभ्यः पतन्त्यो गिरिमूर्धनि ॥ 7.19.21 ॥
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा।
तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह ॥ 7.19.22 ॥
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः।
वज्रदग्ध इवारण्ये सालो निपतितो यथा ॥ 7.19.23 ॥
तं प्रहस्याब्रवीद्द्रक्ष इक्ष्वाकुं पृथिवीपतिम्।
किमिदानीं फलं प्राप्तं त्वया मां प्रति युद्ध्यता ॥ 7.19.24 ॥
त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप।
शङ्के प्रसक्तो भोगेषु न शृणोषि बलं मम ॥ 7.19.25 ॥
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत्।
किं शक्यमिह कर्तुं वै कालो हि दुरतिक्रमः ॥ 7.19.26 ॥
नह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना।
कालेनैव विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥ 7.19.27 ॥
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये।
नह्यहं विमुखी रक्षो युध्यमानस्त्वया हतः ॥ 7.19.28 ॥
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः।
यदि गुप्ताः प्रजाः सम्यक्तदा सत्यं वचोऽस्तु मे ॥ 7.19.29 ॥
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम्।
रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥ 7.19.30 ॥
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः।
तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥ 7.19.31 ॥
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम्।
स्वर्गते च नृपे तस्मिन्राक्षसः सोऽपसर्पत ॥ 7.19.32 ॥