अथ राजन्महाबाहुर्विचरन्स महीतले।
हिमवद्वनमासाद्य परिचक्राम रावणः ॥ 7.17.1 ॥
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम्।
आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ॥ 7.17.2 ॥
स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम्।
काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ॥ 7.17.3 ॥
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते।
नहि युक्ता तवैतस्य रूपस्यैव प्रति क्रिया ॥ 7.17.4 ॥
रूपं तेऽनुपमं भीरु कामोन्मादकरं नृणाम्।
न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ॥ 7.17.5 ॥
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने।
येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥ 7.17.6 ॥
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः।
एवमुक्ता तु सा कन्या रावणेन यशस्विनी ॥ 7.17.7 ॥
कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः।
बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ॥ 7.17.8 ॥
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः।
सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ॥ 7.17.9 ॥
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः।
तेऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ॥ 7.17.10 ॥
न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ।
कारणं तद्वदिष्यामि निशाचर निशामय ॥ 7.17.11 ॥
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः।
अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ 7.17.12 ॥
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः।
दम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ॥ 7.17.13 ॥
तेन रात्रौ शयानो मे पिता पापेन हिंसितः ॥ 7.17.14 ॥
ततो मे जननी दीना तच्छरीरं पितुर्मम।
परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ 7.17.15 ॥
ततो मनोरथं सत्यं पितुर्नारायणं प्रति।
करोमीति तमेवाहं हृदयेन समुद्वहे ॥ 7.17.16 ॥
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः।
एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ 7.17.17 ॥
आश्रये नियमं घोरं नारायणपरीप्सया।
विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ॥ 7.17.18 ॥
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ॥ 7.17.19 ॥
सोऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम्।
अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ 7.17.20 ॥
अवलिप्ताऽसि सुश्रोणि यस्यास्ते मतिरीदृशी।
वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ॥ 7.17.21 ॥
त्वं सर्वङ्गुणसम्पन्ना नार्हसे वक्तुमीदृशम्।
त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ॥ 7.17.22 ॥
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः।
तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ॥ 7.17.23 ॥
वीर्येण तपसा चैव भोगेन च बलेन च।
न मया स समो भद्रे यं त्वं कामयसेऽङ्गने ॥ 7.17.24 ॥
इत्युक्तवति तस्मिंस्तु वेदवत्यथ साऽब्रवीत् ॥ 7.17.25 ॥
त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम्।
त्वदृते राक्षसेन्द्रान्यः कोऽवमन्येत बुद्धिमान् ॥ 7.17.26 ॥
एवमुक्तस्तया तत्र वेदवत्या निशाचरः।
मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ॥ 7.17.27 ॥
ततो वेदवती क्रुद्धा केशान्हस्तेन साऽच्छिनत्।
असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदाऽकरोत् ॥ 7.17.28 ॥
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम्।
उवाचाग्निं समाधाय मरणाय कृतत्वरा ॥ 7.17.29 ॥
धर्षितायास्त्वयानार्य न मे जीवितमिष्यते।
रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ॥ 7.17.30 ॥
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने।
तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ॥ 7.17.31 ॥
न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः।
शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ॥ 7.17.32 ॥
यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा।
तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥ 7.17.33 ॥
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम्।
पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥ 7.17.34 ॥
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा।
तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥ 7.17.35 ॥
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ।
प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ 7.17.36 ॥
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत्।
गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ॥ 7.17.37 ॥
एतच्छ्रुत्वाऽर्णवे राम तां प्रचिक्षेप रावणः।
सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ॥ 7.17.38 ॥
सैषा जनकराजस्य प्रसूता तनया प्रभो।
तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ 7.17.39 ॥
पूर्वं क्रोधाहितः शत्रुर्ययाऽसौ निहतस्तथा।
उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ॥ 7.17.40 ॥
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः।
क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ॥ 7.17.41 ॥
एषा वेदवती नाम पूर्वमासीत्कृते युगे।
त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ॥ 7.17.42 ॥
उत्पन्ना मैथिलकुले जनकस्य महात्मनः।
सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥ 7.17.43 ॥