स जित्वा धनदं राम भ्रातरं राक्षसाधिपः।
महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ 7.16.1 ॥
अथापश्यदृशग्रीवो रौक्मं शरवणं महत्।
गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ 7.16.2 ॥
स पर्वतं समारुह्य कञ्चिद्रम्यवनान्तरम्।
अपश्यत् पुष्पकं तत्र रामविष्टम्भितं तदा ॥ 7.16.3 ॥
विष्टब्धं पुष्पकं दृष्ट्वा ह्यगमं कामागं कृतम्।
अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ 7.16.4 ॥
किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम्।
पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ 7.16.5 ॥
ततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः।
नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ 7.16.6 ॥
अथवा पुष्पकमिदं धनदान्नान्यवाहनम्।
अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ 7.16.7 ॥
इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः।
वामनो विकटो मुण्डी नन्दी प्रह्वभुजो बली ॥ 7.16.8 ॥
ततः पार्श्वमुपागम्य भवस्यानुचरोऽब्रवीत्।
नन्दीश्वरो वचश्चेदं राक्षसेन्द्रमशङ्कितः ॥ 7.16.9 ॥
निवर्तस्व दशग्रीव शैले क्रीडति शङ्करः।
सुपर्णनागयक्षाणां देवगन्धर्वरक्षसाम् ॥ 7.16.10 ॥
[तन्निवर्तस्व दुर्बुद्धे मा विनाशमवाप्स्यसि।] इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ॥ 7.16.11 ॥
रोषात्तु ताम्रनयनः पुष्पकादवरुह्य सः।
कोऽयं शङ्कर इत्युक्त्वा शैलमूलमुपागतः ॥ 7.16.12 ॥
सोऽपश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम्।
दीप्तं शूलमवष्टभ्य द्वितीयमिव शङ्करम् ॥ 7.16.13 ॥
तं दृष्ट्वा वानरमुखमवज्ञाय स राक्षसः।
प्रहासं मुमुचे तत्र सतोय इव तोयदः ॥ 7.16.14 ॥
तं क्रुद्धो भगवान्नन्दी शङ्करस्यापरा तनुः।
अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ॥ 7.16.15 ॥
यस्माद्वानररूपं मामवज्ञाय दशानन।
अशनीपातसङ्काशमपहासं प्रमुक्तवान् ॥ 7.16.16 ॥
तस्मान्मद्रूपसम्पन्ना मद्वीर्यसमतेजसः।
उत्पत्स्यन्ति वधार्थं हि कुलस्य तव वानराः ॥ 7.16.17 ॥
नखदंष्ट्रायुधाः क्रूरा मनःसम्पातरंहसः।
युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः ॥ 7.16.18 ॥
ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम्।
व्यपनेष्यन्ति सम्भूय सहामात्यसुतस्य च ॥ 7.16.19 ॥
किं त्विदानीं मया शक्यं हन्तुं त्वां हे निशाचर।
न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः ॥ 7.16.20 ॥
इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि।
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ 7.16.21 ॥
अचिन्तयित्वा स तदा नन्दिवाक्यं महाबलः।
पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥ 7.16.22 ॥
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः।
तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ 7.16.23 ॥
केन प्रभावेण भवो नित्यं क्रीडति राजवत्।
विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ॥ 7.16.24 ॥
एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते।
तोलयामास तं शीघ्रं स शैलं समकम्पत ॥ 7.16.25 ॥
चालनात्पर्वतस्यैव गणा देवस्य कम्पिताः।
चचाल पार्वती चापि तदाऽऽश्लिष्टा महेश्वरम् ॥ 7.16.26 ॥
ततो राम महादवो देवानां प्रवरो हरः।
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ॥ 7.16.27 ॥
पीडितास्तु ततस्तस्य शैलस्याधोगता भुजाः।
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ 7.16.28 ॥
रक्षसा तेन रोषाच्च भुजानां पीडनात्तदा।
मुक्तो विरावः सहसा त्रैलोक्यं येन कम्पितम् ॥ 7.16.29 ॥
मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये।
तदा वर्त्मस्थचलिता देवा इन्द्रपुरोगमाः ॥ 7.16.30 ॥
समुद्राश्चापि सङ्क्षुब्धाश्चलिताश्चापि पर्वताः।
यक्षा विद्याधराः सिद्धाः किमेतदिति चाब्रुवन् ॥ 7.16.31 ॥
अथ ते मन्त्रिणस्तस्य विक्रोशन्तमथाब्रुवन्।
तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ 7.16.32 ॥
तमृते शरणं नान्यं पश्यामोऽत्र दशानन।
स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ॥ 7.16.33 ॥
कृपालुः शङ्करस्तुष्टः प्रसादं ते विधास्यति।
एवमुक्तस्तदामात्यैस्तुष्टाव वृषभध्वजम् ॥ 7.16.34 ॥
सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः।
संवत्सरसहस्रं तु रुदतो रक्षसो गतम् ॥ 7.16.35 ॥
ततः प्रीतो महादेवः शैलाग्रे विष्ठितः प्रभुः।
मुक्त्वा चास्य भुजान्राम प्राह वाक्यं दशाननम् ॥ 7.16.36 ॥
प्रीतोऽस्मि तव वीर्यस्य शौण्डार्याच्च दशानन।
शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ॥ 7.16.37 ॥
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम्।
तस्मात्त्वं रावणो नाम नाम्ना राजन्भविष्यसि ॥ 7.16.38 ॥
देवता मानुषा यक्षा ये चान्ये जगतीतले।
एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ 7.16.39 ॥
गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि।
मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥ 7.16.40 ॥
एवमुक्तस्तु लङ्केशः शम्भुना स्वयमब्रवीत्।
प्रीतो यदि महादेव वरं मे देहि याचतः ॥ 7.16.41 ॥
अवध्यत्वं मया प्राप्तं देवगन्धर्वदानवैः।
राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ 7.16.42 ॥
मानुषान्न गणे देव स्वल्पास्ते मम सम्मताः।
दीर्घमायुश्च मे प्राप्तं ब्रह्मणस्त्रिपुरान्तक ॥ 7.16.43 ॥
वाञ्छितं चायुषः शेषं शस्त्रं त्वं च प्रयच्छ मे।
एवमुक्तस्ततस्तेन रावणेन स शङ्करः ॥ 7.16.44 ॥
ददौ खड्गं महादीप्तं चन्द्रहासमिति श्रुतम्।
आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ॥ 7.16.45 ॥
दत्त्वोवाच ततः शम्भुर्नावज्ञेयमिदं त्वया।
अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ॥ 7.16.46 ॥
एवं महेश्वरेणैव कृतनामा स रावणः।
अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ॥ 7.16.47 ॥
ततो महीतले राम पर्यक्रामत रावणः।
क्षत्ित्रयान्सुमहावीर्यान्बाधमान इतस्ततः ॥ 7.16.48 ॥
केचित्तेजस्विनः शूराः क्षत्ित्रया युद्धदुर्मदाः।
तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ॥ 7.16.49 ॥
अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसम्मताः।
जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ॥ 7.16.50 ॥