०१५ पुष्पक-प्राप्तिः

ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः।
धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ॥ 7.15.1 ॥
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम्।
शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ॥ 7.15.2 ॥
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः।
वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ॥ 7.15.3 ॥
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः।
अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ॥ 7.15.4 ॥
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु।
बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ॥ 7.15.5 ॥
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः।
दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ॥ 7.15.6 ॥
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे।
महोदरेण चानिन्द्यं सहस्रमपरं हतम् ॥ 7.15.7 ॥
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना।
निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ॥ 7.15.8 ॥
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम्।
रक्षसां पुरुषव्याघ्र तेन तेऽभ्यधिका युधि ॥ 7.15.9 ॥
धूम्राक्षेण समागम्य माणिभद्रो महारणे।
मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ॥ 7.15.10 ॥
ततो गदां समाविध्य माणिभद्रेण राक्षसः।
धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ॥ 7.15.11 ॥
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम्।
अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ॥ 7.15.12 ॥
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम्।
शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ॥ 7.15.13 ॥
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे।
तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ॥ 7.15.14 ॥
[तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि।] सन्नादः सुमहान्राजंस्तस्मिन्शैलेऽभ्यवर्तत ॥ 7.15.15 ॥
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः।
शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ॥ 7.15.16 ॥
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम्।
उवाच वचनं धीमान्युक्तं पैतामहे कुले ॥ 7.15.17 ॥
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते।
पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ॥ 7.15.18 ॥
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः।
स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥ 7.15.19 ॥
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित्।
येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ॥ 7.15.20 ॥
मातरं पितरं यो हि आचार्यं चावमन्यते।
स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ 7.15.21 ॥
अध्रुवे हि शरीरे यो न करोति तपोर्जनम्।
स पश्चात्तप्यते मूढो मृतो दृष्ट्वाऽऽत्मनो गतिम् ॥ 7.15.22 ॥
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च।
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ॥ 7.15.23 ॥
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना।
तस्मादात्मापघातार्थं मूढः पापं करिष्यति ॥ 7.15.24 ॥
देवं चेष्टयते सर्वं हतो दैवेन हन्यते।
यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ 7.15.25 ॥
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च।
प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ 7.15.26 ॥
एवं निरयगामी त्वं यस्य ते मतिरीदृशी।
न त्वां समभिभाषिष्येऽसद्वृत्तेष्वेव निर्णयः ॥ 7.15.27 ॥
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः।
मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ॥ 7.15.28 ॥
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना।
गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ॥ 7.15.29 ॥
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे।
न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ॥ 7.15.30 ॥
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा।
राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ॥ 7.15.31 ॥
ततो मायां प्रविष्टोऽसौ राक्षसीं राक्षसेश्वरः।
रूपाणां शतसाहस्रं विनाशाय चकार च ॥ 7.15.32 ॥
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः।
यक्षो दैत्यस्वरूपी च सोऽदृश्यत दशाननः ॥ 7.15.33 ॥
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः।
प्रतिगृह्य ततो राम महदस्त्रं दशाननः ॥ 7.15.34 ॥
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम्।
एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ॥ 7.15.35 ॥
कृत्तमूल इवाशोको निपपात धनाधिपः ॥ 7.15.36 ॥
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः।
धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ॥ 7.15.37 ॥
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः।
पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ॥ 7.15.38 ॥
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम्।
मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ॥ 7.15.39 ॥
मनोजवं कामगमं कामरूपं विहङ्गमम्।
मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ॥ 7.15.40 ॥
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम्।
बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ॥ 7.15.41 ॥
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम्।
न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ 7.15.42 ॥
स तं राजा समारुह्य कामगं वीर्यनिर्जितम्।
जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ॥ 7.15.43 ॥
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ 7.15.44 ॥
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान्।
रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ॥ 7.15.45 ॥