०१४ सूर्य-भानु-यक्ष-हतिः

ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः।
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ॥ 7.14.1 ॥
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना।
वृतः सम्प्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव ॥ 7.14.2 ॥
पुराणि स नदीः शैलान्वनान्युपवनानि च।
अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥ 7.14.3 ॥
सन्निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु।
युद्धेऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ॥ 7.14.4 ॥
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः।
राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ 7.14.5 ॥
ते गत्वा सर्वमाचख्युर्भ्रातुस्तस्य चिकीर्षितम्।
अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥ 7.14.6 ॥
ततो बलानां सङ्क्षोभो व्यवर्धत महोदधेः।
तस्य नैर्ऋतराजस्य शैलं सञ्चालयन्निव ॥ 7.14.7 ॥
ततो युद्धं समभवद्यक्षराक्षससङ्कुलम्।
व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ 7.14.8 ॥
स दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः।
हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ 7.14.9 ॥
ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः।
तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ॥ 7.14.10 ॥
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः।
हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ 7.14.11 ॥
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः।
वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ 7.14.12 ॥
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः।
महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥ 7.14.13 ॥
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम्।
प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ 7.14.14 ॥
स कक्षमिव विस्तीर्णं शुष्केन्धनमिवाकुलम्।
वातेनाग्निरिवायत्तो यक्षसैन्यं ददाह तत् ॥ 7.14.15 ॥
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः।
अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥ 7.14.16 ॥
केचित्समाहता भग्नाः पतिताः समरक्षितौ।
ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ 7.14.17 ॥
श्रान्ताश्चान्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे।
सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥ 7.14.18 ॥
हतानां गच्छतां स्वर्गं युध्यतां पृथिवीतले।
प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ॥ 7.14.19 ॥
भग्नांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान्।
धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥ 7.14.20 ॥
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः।
प्रेषितो न्यपतद्यक्षो नाम्ना संयोधकण्टकः ॥ 7.14.21 ॥
तेन चक्रेण मारीचो विष्णुनेव रणे हतः।
पतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ 7.14.22 ॥
ससञ्ज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः।
तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ॥ 7.14.23 ॥
ततः काञ्चनचित्राङ्गं वैडूर्यरजसोक्षितम्।
मर्यादां प्रतिहाराणां तोरणान्तरमाविशत् ॥ 7.14.24 ॥
तं तु राजन्दशग्रीवं प्रविशन्तं निशाचरम्।
सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥ 7.14.25 ॥
स वार्यमाणो यक्षेण प्रविवेश निशाचरः।
यदा तु वारितो राम न व्यतिष्ठत्स राक्षसः ॥ 7.14.26 ॥
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः।
रुधिरं प्रस्रवन्भाति शैलो धातुस्रवैरिव ॥ 7.14.27 ॥
स शैलशिखराभेण तोरणेन समाहतः।
जगाम न क्षतिं वीरो वरदानात्स्वयम्भुवः ॥ 7.14.28 ॥
तेनैव तोरणेनाथ यक्षस्तेनाभिताडितः।
नादृश्यत तदा यक्षो भस्मीकृततनुस्तदा ॥ 7.14.29 ॥
ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः।
त्यक्तप्रहरणाः श्रान्ता विवर्णवदनास्तदा ॥ 7.14.30 ॥