०१३ कुबेर-दूत-हतिः

अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित्।
निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ 7.13.1 ॥
ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः।
निद्रा मां बाधते राजन्कारयस्व ममालयम् ॥ 7.13.2 ॥
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत्।
विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् ॥ 7.13.3 ॥
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे।
स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् ॥ 7.13.4 ॥
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा।
दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥ 7.13.5 ॥
मनोहरं सर्वसुखं कारयामास राक्षसः।
सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ 7.13.6 ॥
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः।
बहून्यब्दसहस्राणि शयानो न प्रबुद्ध्यते ॥ 7.13.7 ॥
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः।
देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः ॥ 7.13.8 ॥
उद्यानानि च चित्राणि नन्दनादीनि यानि च।
तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः ॥ 7.13.9 ॥
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन्।
नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ 7.13.10 ॥
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः।
कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ॥ 7.13.11 ॥
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा।
लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् ॥ 7.13.12 ॥
स गत्वा नगरीं लङ्कामाससाद विभीषणम्।
मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ 7.13.13 ॥
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनां च बिभीषणः।
सभायां दर्शयामास तमासीनं दशाननम् ॥ 7.13.14 ॥
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा।
जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत ॥ 7.13.15 ॥
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते।
उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ 7.13.16 ॥
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत्।
उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ 7.13.17 ॥
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः।
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ 7.13.18 ॥
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः।
देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ 7.13.19 ॥
निराकृतश्च बहुशस्त्वयाऽहं राक्षसाधिप।
अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः ॥ 7.13.20 ॥
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम्।
रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः ॥ 7.13.21 ॥
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः।
सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥ 7.13.22 ॥
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना।
रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति ॥ 7.13.23 ॥
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम्।
रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् ॥ 7.13.24 ॥
ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम्।
तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ 7.13.25 ॥
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः।
प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ॥ 7.13.26 ॥
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात्।
प्रीतोऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत ॥ 7.13.27 ॥
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप।
तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् ॥ 7.13.28 ॥
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा।
तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर ॥ 7.13.29 ॥
तपसा निर्जितश्चैव सखा भव ममानघ।
देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् ॥ 7.13.30 ॥
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम्।
एवं तेन सखित्वं च प्राप्यानुज्ञां च शङ्करात् ॥ 7.13.31 ॥
आगत्य च श्रुतोऽयं मे तव पापविनिश्चयः ॥ 7.13.32 ॥
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात्।
चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव ॥ 7.13.33 ॥
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः।
हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह ॥ 7.13.34 ॥
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे।
नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः ॥ 7.13.35 ॥
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः।
महेश्वरसखित्वं तु मूढ श्रावयते किल ॥ 7.13.36 ॥
न चेदं क्षमणीयं मे यदेतद्भाषितं त्वया।
यदेतावन्मया कालं दूत तस्य तु मर्षितम् ॥ 7.13.37 ॥
न हन्तव्यो गुरुर्ज्येष्ठो मयाऽयमिति मन्यते।
तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः ॥ 7.13.38 ॥
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः ॥ 7.13.39 ॥
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते।
चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् ॥ 7.13.40 ॥
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान्।
ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् ॥ 7.13.41 ॥
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः।
त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः ॥ 7.13.42 ॥