०१२ पौलस्त्य-विवाहः

राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा।
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् ॥ 7.12.1 ॥
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम्।
ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ 7.12.2 ॥
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत्।
तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ 7.12.3 ॥
अपृच्छत्को भवानेको निर्मनुष्यमृगे वने।
अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि ॥ 7.12.4 ॥
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम्।
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ 7.12.5 ॥
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया।
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ 7.12.6 ॥
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम्।
सा च दैवतकार्येण त्रयोदश समा गताः ॥ 7.12.7 ॥
वर्षं चतुर्दशं चैव ततो हेममयं पुरम्।
वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ 7.12.8 ॥
तत्राहमवसं दीनस्तया हीनः सुदुःखितः ॥ 7.12.9 ॥
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः।
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता ॥ 7.12.10 ॥
भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम्।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ 7.12.11 ॥
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति।
पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह ॥ 7.12.12 ॥
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः।
एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः ॥ 7.12.13 ॥
त्वामिदानीं कथं तात जानीयां को भवानिति।
एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् ॥ 7.12.14 ॥
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः।
मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ॥ 7.12.15 ॥
महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः।
दातुं दुहितरं तस्मै रोचयामास यत्र वै ॥ 7.12.16 ॥
करेण तु करं तस्या ग्राहयित्वा मयस्तदा।
प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ 7.12.17 ॥
इयं ममात्मजा राजन्हेमयाऽप्सरसा धृता।
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् ॥ 7.12.18 ॥
बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत।
प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् ॥ 7.12.19 ॥
स हि तस्य मयो राम शापाभिज्ञस्तपोधनात्।
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥ 7.12.20 ॥
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम्।
परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया ॥ 7.12.21 ॥
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः।
गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ॥ 7.12.22 ॥
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः।
तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् ॥ 7.12.23 ॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः।
सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः ॥ 7.12.24 ॥
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि।
सरस्तदा मानसं तु ववृधे जलदागमे ॥ 7.12.25 ॥
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः।
सरो मा वर्धयस्वेति ततः सा सरमाऽभवत् ॥ 7.12.26 ॥
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः।
स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ 7.12.27 ॥
ततो मन्दोदरी पुत्रं मेघनादमजीजनत्।
स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ 7.12.28 ॥
जातमात्रेण हि पुरा तेन रावणसूनुना।
रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ 7.12.29 ॥
जडीकृता च सा लङ्का तस्य नादेन राघव।
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ 7.12.30 ॥
सोऽवर्धत तदा राम रावणान्तःपुरे शुभे।
रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः ॥ 7.12.31 ॥
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः ॥ 7.12.32 ॥