सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान्।
उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् ॥ 7.11.1 ॥
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः।
उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः ॥ 7.11.2 ॥
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः।
अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् ॥ 7.11.3 ॥
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितोऽयं मनोरथः।
यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् ॥ 7.11.4 ॥
यत्कृते च वयं लङ्कां त्यकत्वा याता रसातलम्।
तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् ॥ 7.11.5 ॥
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम्।
विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् ॥ 7.11.6 ॥
अस्मदीया च लङ्केयं नगरी राक्षसोचिता।
निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता ॥ 7.11.7 ॥
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ।
तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् ॥ 7.11.8 ॥
त्वया राक्षसवंशोऽयं निमग्नोऽपि समुद्धृतः।
सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल ॥ 7.11.9 ॥
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम्।
वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् ॥ 7.11.10 ॥
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा।
किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् ॥ 7.11.11 ॥
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः।
उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः ॥ 7.11.12 ॥
प्रहस्तः प्रश्रितं वाक्यमिदमाह स कारणम् ॥ 7.11.13 ॥
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम्।
सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम ॥ 7.11.14 ॥
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते।
भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः ॥ 7.11.15 ॥
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान्।
दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् ॥ 7.11.16 ॥
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा।
सपर्वता मही वीर तेऽभवन्प्रभविष्णवः ॥ 7.11.17 ॥
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना।
देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् ॥ 7.11.18 ॥
नैतदेको भवानेव करिष्यति विपर्ययम्।
सुरासुरैराचरितं तत्कुरुष्व वचो मम ॥ 7.11.19 ॥
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना।
चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत् ॥ 7.11.20 ॥
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान्।
वनं गतो दशग्रीवः सह तैः क्षणदाचरैः ॥ 7.11.21 ॥
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः।
प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् ॥ 7.11.22 ॥
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम्।
वचसा मम वित्तेशं सामपूर्वमिदं वचः ॥ 7.11.23 ॥
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम्।
त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ ॥ 7.11.24 ॥
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम।
कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः ॥ 7.11.25 ॥
स तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम्।
अब्रवीत्परमोदारं वित्तपालमिदं वचः ॥ 7.11.26 ॥
प्रेषितोऽहं तव भ्रात्रा दशग्रीवेण सुव्रत।
त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर ॥ 7.11.27 ॥
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद।
वचनं मम वित्तेश यद्ब्रवीति दशाननः ॥ 7.11.28 ॥
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा।
भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥ 7.11.29 ॥
तेन विज्ञाप्यते सोऽयं साम्प्रतं विश्रवात्मज।
तदेषा दीयतां तात याचतस्तस्य सामतः ॥ 7.11.30 ॥
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः।
प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ 7.11.31 ॥
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः।
निवासिते च मे यक्षैर्दानमानादिभिर्गुणैः ॥ 7.11.32 ॥
तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम्।
[अविभक्तं त्वया सार्धं राज्यं यच्चापि मे वसु।] ॥ 7.11.33 ॥
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ॥ 7.11.34 ॥
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम्।
एष तात दशग्रीवो दूतं प्रेषितवान्मम ॥ 7.11.35 ॥
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता।
मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥ 7.11.36 ॥
ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुङ्गवः।
प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ॥ 7.11.37 ॥
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ।
मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः ॥ 7.11.38 ॥
स क्रोधेन मया चोक्तो ध्वंसते च पुनः पुनः।
श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥ 7.11.39 ॥
वरप्रदानसम्मूढो मान्याऽमान्यान् स दुर्मतिः।
न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः ॥ 7.11.40 ॥
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम्।
निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः ॥ 7.11.41 ॥
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी।
काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका ॥ 7.11.42 ॥
कुमुदैरुत्पलैश्चैव तथाऽन्यैश्च सुगन्धिभिः ॥ 7.11.43 ॥
तत्र देवाः सगन्धर्वाः साप्सरोरगकिन्नराः।
विहारशीलाः सततं रमन्ते सर्वदाऽऽश्रिताः ॥ 7.11.44 ॥
न हि क्षमं तवानेन वैरं धनद रक्षसा।
जानीषे हि यथाऽनेन लब्धः परमको वरः ॥ 7.11.45 ॥
एवमुक्तो गृहीत्वाऽऽशु तद्वचः पितृगौरवात्।
सदारपुत्रः सामान्यः सवाहनधनो गतः ॥ 7.11.46 ॥
प्रहस्तोऽथ दशग्रीवं गत्वा वचनमब्रवीत्।
प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् ॥ 7.11.47 ॥
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः।
प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय ॥ 7.11.48 ॥
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः।
विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः ॥ 7.11.49 ॥
धनदेन परित्यक्तां सुविभक्तमहापथाम्।
आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥ 7.11.50 ॥
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः।
निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः ॥ 7.11.51 ॥
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम्।
स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदाऽमरावतीम् ॥ 7.11.52 ॥