अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने।
कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः ॥ 7.10.1 ॥
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम्।
तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ 7.10.2 ॥
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः।
तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः ॥ 7.10.3 ॥
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत।
नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ 7.10.4 ॥
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः।
धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ॥ 7.10.5 ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः।
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ 7.10.6 ॥
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः।
पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः ॥ 7.10.7 ॥
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत।
तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः ॥ 7.10.8 ॥
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने।
दशवर्षसहस्राणि गतानि नियतात्मनः ॥ 7.10.9 ॥
दशवर्षसहस्रं तु निराहारो दशाननः।
पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः ॥ 7.10.10 ॥
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः।
शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ॥ 7.10.11 ॥
अथ वर्षसहस्रे तु दशमे दशमं शिरः।
छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ॥ 7.10.12 ॥
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः।
तव तावद्दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ 7.10.13 ॥
शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः।
कं ते कामं करोम्यद्य न वृथा ते परिश्रमः ॥ 7.10.14 ॥
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना।
प्रणम्य शिरसा देवं हर्षगद्गदया गिरा ॥ 7.10.15 ॥
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम्।
नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ 7.10.16 ॥
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह।
नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ॥ 7.10.17 ॥
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा।
दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ॥ 7.10.18 ॥
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्।
अवध्योऽहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ 7.10.19 ॥
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित।
तृणभूता हि ते मन्ये प्राणिनो मानुषादयः ॥ 7.10.20 ॥
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा।
उवाच वचनं देवः सह देवैः पितामहः ॥ 7.10.21 ॥
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव।
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः ॥ 7.10.22 ॥
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम।
हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ ॥ 7.10.23 ॥
पुनस्तानि भविष्यन्ति तथैव तव राक्षस।
वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ 7.10.24 ॥
छन्दतस्तव रूपं च मनसा यद्यथेप्सितम्।
भविष्यति न सन्देहो मद्वरात्तवराक्षस ॥ 7.10.25 ॥
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः।
अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै ॥ 7.10.26 ॥
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः।
विभीषणमथोवाच वाक्यं लोकपितामहः ॥ 7.10.27 ॥
विभीषण त्वया वत्स धर्मसंहितबुद्धिना।
परितुष्टोऽस्मि धर्मात्मन्वरं वरय सुव्रत ॥ 7.10.28 ॥
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः।
वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ॥ 7.10.29 ॥
भगवन्कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम्।
प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ॥ 7.10.30 ॥
परमापद्गतस्यापि धर्मे मम मतिर्भवेत्।
अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥ 7.10.31 ॥
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च।
सा सा भवतु धर्मिष्ठा तं तु धर्मं च पालये ॥ 7.10.32 ॥
एष मे परमोदार वरः परमको मतः।
नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् ॥ 7.10.33 ॥
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह।
धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ॥ 7.10.34 ॥
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन।
नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ॥ 7.10.35 ॥
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम्।
प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् ॥ 7.10.36 ॥
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया।
जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ 7.10.37 ॥
नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश।
अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा ॥ 7.10.38 ॥
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु।
तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् ॥ 7.10.39 ॥
वरव्याजेन मोहोऽस्मै दीयताममितप्रभ।
लोकानां स्वस्ति चैवं स्याद्भवेदस्य च सन्नतिः ॥ 7.10.40 ॥
एवमुक्तः सुरैर्ब्रह्माऽचिन्तयत् पद्मसम्भवः।
चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती ॥ 7.10.41 ॥
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती।
इयमस्म्यागता देव किं कार्यं करवाण्यहम् ॥ 7.10.42 ॥
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम्।
वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता ॥ 7.10.43 ॥
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत्।
कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ 7.10.44 ॥
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत्।
स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ 7.10.45 ॥
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम्।
देवी सरस्वती चैव राक्षसं तं जहौ पुनः ॥ 7.10.46 ॥
ब्रह्मणा सह देवेषु गतेषु च नभःस्थलम्।
विमुक्तोऽसौ सरस्वत्या स्वां सञ्ज्ञां च ततो गतः ॥ 7.10.47 ॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः।
ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ॥ 7.10.48 ॥
एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः।
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् ॥ 7.10.49 ॥