००९ रावणादि-जन्म

कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः।
रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ 7.9.1 ॥
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः।
कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ 7.9.2 ॥
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम्।
तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ 7.9.3 ॥
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम्।
तं दृष्ट्वाऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ॥ 7.9.4 ॥
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः।
इत्येवं चिन्तयामास राक्षसानां महामतिः ॥ 7.9.5 ॥
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम्।
अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ 7.9.6 ॥
पुत्रि प्रदानकालोऽयं यौवनं व्यतिवर्तते।
प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ 7.9.7 ॥
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके।
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ 7.9.8 ॥
न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ 7.9.9 ॥
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते।
कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ 7.9.10 ॥
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम्।
भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ 7.9.11 ॥
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः।
तेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥ 7.9.12 ॥
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात्।
तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥ 7.9.13 ॥
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः।
अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ 7.9.14 ॥
उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता।
विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ 7.9.15 ॥
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम्।
अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ 7.9.16 ॥
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता।
किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ 7.9.17 ॥
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्।
आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ॥ 7.9.18 ॥
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम्।
कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥ 7.9.19 ॥
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह।
विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ 7.9.20 ॥
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि।
दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ 7.9.21 ॥
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि।
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ 7.9.22 ॥
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः।
सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ 7.9.23 ॥
भगवन्नीदृशान्पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः।
नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ 7.9.24 ॥
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः।
उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ 7.9.25 ॥
पश्चिमो यस्तव सुतो भविष्यति शुभानने।
मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ 7.9.26 ॥
एवमुक्ता तु सा कन्या राम कालेन केनचित्।
जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ 7.9.27 ॥
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम्।
ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ 7.9.28 ॥
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः।
क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥ 7.9.29 ॥
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः।
प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ 7.9.30 ॥
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः।
अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ॥ 7.9.31 ॥
अथ नामाकरोत्तस्य पितामहसमः पिता।
दशग्रीवः प्रसूतोऽयं दशग्रीवो भविष्यति ॥ 7.9.32 ॥
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः।
प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ 7.9.33 ॥
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना।
विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ 7.9.34 ॥
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ 7.9.35 ॥
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा।
वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ॥ 7.9.36 ॥
तौ तु तत्र महारण्ये ववृधाते महौजसौ।
कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ 7.9.37 ॥
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान्।
त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ॥ 7.9.38 ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः।
स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ 7.9.39 ॥
अथ वैश्रवणो देवस्तत्र कालेन केनचित्।
आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ 7.9.40 ॥
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा।
आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ 7.9.41 ॥
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम्।
भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ 7.9.42 ॥
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम।
यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ॥ 7.9.43 ॥
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान्।
अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ 7.9.44 ॥
सत्यं ते प्रतिजानामि भ्रातृतुल्योऽधिकोऽपि वा।
भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ॥ 7.9.45 ॥
ततस्तेनैव कोपेन दशग्रीवः सहानुजः।
चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ 7.9.46 ॥
प्राप्स्यामि तपसा काममिति कृत्वाऽध्यवस्य च।
आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ 7.9.47 ॥
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः।
अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ 7.9.48 ॥