हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः।
माल्वान्सन्निवृत्तोऽथ वेलामेत्य इवार्णवः ॥ 7.8.1 ॥
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः।
पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ 7.8.2 ॥
नारायण न जानीषे क्षात्रधर्मं पुरातनम्।
अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥ 7.8.3 ॥
पराङ्मुखवधं पापं यः करोत्यसुरेतरः।
स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ 7.8.4 ॥
युद्धश्रद्धाऽथवा तेऽस्ति शङ्खचक्रगदाधर।४ अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव ॥ 7.8.5 ॥
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम्।
उवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ 7.8.6 ॥
युष्मत्तो भयभीतानां देवानां वै मयाऽभयम्।
राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ 7.8.7 ॥
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया।
सोऽहं वो निहनिष्यामि रसातलगतानपि ॥ 7.8.8 ॥
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम्।
शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ 7.8.9 ॥
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना।
हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ 7.8.10 ॥
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः।
माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ 7.8.11 ॥
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता।
काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ॥ 7.8.12 ॥
सा तस्योरसि विस्तीर्णे हारभाराऽवभासिते।
अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥ 7.8.13 ॥
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः।
माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ 7.8.14 ॥
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम्।
प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ 7.8.15 ॥
तथैव रणरक्तस्तु मुष्टिना वासवानुजम्।
ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ 7.8.16 ॥
ततोऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः।
आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ 7.8.17 ॥
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम्।
व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ 7.8.18 ॥
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम्।
सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ 7.8.19 ॥
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः।
स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ 7.8.20 ॥
एवं ते राक्षसा तेन हरिणा कमलेक्षण।
बहुशः संयुगे भग्ना हतप्रवरनायकाः ॥ 7.8.21 ॥
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः।
त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥ 7.8.22 ॥
सुमालिनं समासाद्य राक्षसं रघुसत्तम।
स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ 7.8.23 ॥
सुमाली माल्यवान्माली ये च तेषां पुरःसराः।
सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ॥ 7.8.24 ॥
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान्।
ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ 7.8.25 ॥
भवान्नारायणो देवश्चतुर्बाहुः सनातनः।
राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥ 7.8.26 ॥
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः।
उत्पद्यते दस्युवधे शरणागतवत्सलः ॥ 7.8.27 ॥
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत्।
भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ 7.8.28 ॥
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा।
पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ॥ 7.8.29 ॥