००७ मालि-वधः

नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः।
ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ 7.7.1 ॥
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः।
वृतोऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ॥ 7.7.2 ॥
शलभा इव केदारं मशका इव पर्वतम्।
यथामृतघटं दंशा मकरा इव चार्णवम् ॥ 7.7.3 ॥
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः।
हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ 7.7.4 ॥
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः।
अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ॥ 7.7.5 ॥
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः।
निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥ 7.7.6 ॥
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः।
शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्योऽसृजच्छरान् ॥ 7.7.7 ॥
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः।
चिच्छेद विष्णुर्निशितैः शतशोऽथ सहस्रशः ॥ 7.7.8 ॥
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम्।
पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥ 7.7.9 ॥
सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट्।
ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ॥ 7.7.10 ॥
शङ्खराजरवः सोऽथ त्रासयामास राक्षसान्।
मृगराज इवारण्ये समदानिव कुञ्जरान् ॥ 7.7.11 ॥
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन्।
स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ॥ 7.7.12 ॥
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः।
विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥ 7.7.13 ॥
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः।
निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥ 7.7.14 ॥
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै।
असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ॥ 7.7.15 ॥
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा।
राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥ 7.7.16 ॥
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च।
रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ॥ 7.7.17 ॥
सूर्यादिव करा घोरा ऊर्मयः सागरादिव।
पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ॥ 7.7.18 ॥
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः।
निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ॥ 7.7.19 ॥
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा।
द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥ 7.7.20 ॥
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा।
मार्जारेण यथा सर्पाः सर्पेण च यथाऽऽखवः ॥ 7.7.21 ॥
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना।
द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ॥ 7.7.22 ॥
राक्षसानां सहस्राणि निहत्य मधुसूदनः।
वारिजं पूरयामास तोयदं सुरराडिव ॥ 7.7.23 ॥
नारायणशरत्रस्तं शङ्खनादसुविह्वलम्।
ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ 7.7.24 ॥
प्रभग्ने राक्षसबले नारायणशराहते।
सुमाली शरवर्षेण निववार रणे हरिम् ॥ 7.7.25 ॥
स तु तं छादयामास नीहार इव भास्करम्।
राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ॥ 7.7.26 ॥
अथ सोऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः।
महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ॥ 7.7.27 ॥
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः।
ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥ 7.7.28 ॥
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम्।
चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥ 7.7.29 ॥
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः।
इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ॥ 7.7.30 ॥
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे।
हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ॥ 7.7.31 ॥
मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः।
विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ 7.7.32 ॥
अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः।
चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥ 7.7.33 ॥
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः।
मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ॥ 7.7.34 ॥
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः।
पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ॥ 7.7.35 ॥
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः।
मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ॥ 7.7.36 ॥
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः।
आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ॥ 7.7.37 ॥
गदया गरुडेशानमीशानमिव चान्तकः।
ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाऽचलम् ॥ 7.7.38 ॥
गदयाभिहतस्तेन मालिना गरुडो भृशम्।
रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥ 7.7.39 ॥
पराङ्मुखे कृते देवे मालिना गरुडेन वै।
उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ॥ 7.7.40 ॥
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ॥ 7.7.41 ॥
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः।
पराङ्मुखोऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ॥ 7.7.42 ॥
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः।
कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥ 7.7.43 ॥
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम्।
पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥ 7.7.44 ॥
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः।
सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ॥ 7.7.45 ॥
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि।
सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ॥ 7.7.46 ॥
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा।
राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥ 7.7.47 ॥
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः।
लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥ 7.7.48 ॥
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः।
निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ 7.7.49 ॥
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः।
नक्तञ्चरान्मुक्तविधूतकेशान्यथाऽशनीभिः सतडिन्महाभ्राः ॥ 7.7.50 ॥
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम्।
विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥ 7.7.51 ॥
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम्।
रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ 7.7.52 ॥
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः।
धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥ 7.7.53 ॥
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः।
अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ॥ 7.7.54 ॥
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः।
निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ॥ 7.7.55 ॥