तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः।
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ 7.6.1 ॥
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम्।
आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ 7.6.2 ॥
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम्।
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥ 7.6.3 ॥
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः।
प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥ 7.6.4 ॥
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः।
स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ॥ 7.6.5 ॥
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम्।
अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ॥ 7.6.6 ॥
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः।
तन्नो देव भयार्तानामभयं दातुमर्हसि ॥ 7.6.7 ॥
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ॥ 7.6.8 ॥
इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः।
सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥ 7.6.9 ॥
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः।
किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥ 7.6.10 ॥
एतमेव समुद्योगं पुरस्कृत्य महर्षयः।
गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥ 7.6.11 ॥
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम्।
विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥ 7.6.12 ॥
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च।
ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ 7.6.13 ॥
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः।
आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ 7.6.14 ॥
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता।
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥ 7.6.15 ॥
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन।
शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ 7.6.16 ॥
चक्रकृत्तास्यकमलान्निवेदय यमाय वै।
भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता विना ॥ 7.6.17 ॥
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान्।
नुदं त्वं नो भयं देव नीहारमिव भास्करः ॥ 7.6.18 ॥
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः।
अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ॥ 7.6.19 ॥
सुकेशं राक्षसं जाने ईशानवरदर्पितम्।
तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ 7.6.20 ॥
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान्।
निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ॥ 7.6.21 ॥
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना।
यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ॥ 7.6.22 ॥
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः।
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ 7.6.23 ॥
अमरा ऋषयश्चैव सङ्गम्य किल शकरम्।
अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥ 7.6.24 ॥
सुकेशतनया देव वरदानबलोद्धताः।
बाधन्तेऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ॥ 7.6.25 ॥
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते।
स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥ 7.6.26 ॥
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन।
राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ॥ 7.6.27 ॥
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः।
शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ 7.6.28 ॥
अवध्या मम ते देवाः सुकेशतनया रणे।
मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥ 7.6.29 ॥
योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः।
हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ॥ 7.6.30 ॥
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च।
नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥ 7.6.31 ॥
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः।
सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ॥ 7.6.32 ॥
देवानां भयभीतानां हरिणा राक्षसर्षभौ।
प्रतिज्ञातो वधोऽस्माकं चिन्त्यतां यदिह क्षमम् ॥ 7.6.33 ॥
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम्।
नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ॥ 7.6.34 ॥
राधेयो बहुमायी च लोकपालोऽथ धार्मिकः।
यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥ 7.6.35 ॥
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः।
सर्वे समरमासाद्य न श्रूयन्तेऽपराजिताः ॥ 7.6.36 ॥
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा।
सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ॥ 7.6.37 ॥
नारायणेन निहताः शतशोऽथ सहस्रशः।
एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥ 7.6.38 ॥
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः।
ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥ 7.6.39 ॥
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम्।
आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥ 7.6.40 ॥
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च।
जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥ 7.6.41 ॥
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा।
अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ॥ 7.6.42 ॥
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर।
देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ 7.6.43 ॥
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः।
देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ॥ 7.6.44 ॥
उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः।
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥ 7.6.45 ॥
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः।
युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ 7.6.46 ॥
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः।
खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥ 7.6.47 ॥
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः।
सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥ 7.6.48 ॥
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः।
प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ॥ 7.6.49 ॥
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ।
भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥ 7.6.50 ॥
रथोत्तमैरुह्यमानाः शतशोऽथ सहस्रशः ॥ 7.6.51 ॥
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः।
रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥ 7.6.52 ॥
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः।
उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ 7.6.53 ॥
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च।
वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥ 7.6.54 ॥
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः।
वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ 7.6.55 ॥
[भूम्यां परिपतन्ति स्म नृत्यमानाः सहस्रशः।] गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ॥ 7.6.56 ॥
कपोता रक्तपादाश्च शारिका विद्रुता ययुः।
काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥ 7.6.57 ॥
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः।
यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ॥ 7.6.58 ॥
माल्यवांश्च सुमाली च माली च सुमहाबलाः।
आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥ 7.6.59 ॥
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम्।
निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥ 7.6.60 ॥
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम्।
जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ॥ 7.6.61 ॥
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः।
देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥ 7.6.62 ॥
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः।
आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ 7.6.63 ॥
श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः।
शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ॥ 7.6.64 ॥
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः।
राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ 7.6.65 ॥
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः।
काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥ 7.6.66 ॥
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः।
समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ॥ 7.6.67 ॥
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम्।
चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥ 7.6.68 ॥
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः।
निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥ 7.6.69 ॥