००५ माल्यवदादि

सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम्।
ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ 7.5.1 ॥
त्रिषु लोकेषु विख्याता रूपयौवनशालिनी।
तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥ 7.5.2 ॥
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम्।
आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ 7.5.3 ॥
स तया सह संयुक्तो रराज रजनीचरः।
अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ 7.5.4 ॥
देववत्यां सुकेशस्तु जनयामास राघव ॥ 7.5.5 ॥
माल्यवन्तं सुमालिं च मालिं च बलिनां वरम्।
त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ॥ 7.5.6 ॥
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः।
त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ 7.5.7 ॥
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः।
विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ 7.5.8 ॥
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात्।
तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ 7.5.9 ॥
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम।
विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ 7.5.10 ॥
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः।
सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ॥ 7.5.11 ॥
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः।
सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत ॥ 7.5.12 ॥
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम्।
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ 7.5.13 ॥
तपसाराधितो देव यदि नो दिशसे वरम्।
अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ॥ 7.5.14 ॥
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ 7.5.15 ॥
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः।
स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ 7.5.16 ॥
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा।
सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ 7.5.17 ॥
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः।
त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ 7.5.18 ॥
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम्।
ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ 7.5.19 ॥
ओजस्तेजोबलवतां महतामात्मतेजसा।
गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ 7.5.20 ॥
हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा।
महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ 7.5.21 ॥
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः।
निवासं कथयामास शक्रस्येवामरावतीम् ॥ 7.5.22 ॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः।
सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ 7.5.23 ॥
शिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निभे।
शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ 7.5.24 ॥
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता।
स्वर्णप्राकारसंवीता हेमतोरणसंवृता ॥ 7.5.25 ॥
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता।
तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥ 7.5.26 ॥
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः।
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ॥ 7.5.27 ॥
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ 7.5.28 ॥
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः।
सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ 7.5.29 ॥
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम्।
लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ॥ 7.5.30 ॥
एतस्मिन्नेव काले तु यथाकामं च राघव।
नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ 7.5.31 ॥
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति।
ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ 7.5.32 ॥
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः।
त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ 7.5.33 ॥
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते।
कुतदारास्तु ते राम सुकेशतनयास्तदा ॥ 7.5.34 ॥
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः।
ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ॥ 7.5.35 ॥
स तस्यां जनयामास यदपत्यं निबोध तत्।
वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ॥ 7.5.36 ॥
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च।
अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ 7.5.37 ॥
सुमालिनोऽपि भार्यासीत्पूर्णचद्रनिभानना।
नाम्ना केतुमती राम प्राणेभ्योऽपि गरीयसी ॥ 7.5.38 ॥
सुमाली जनयामास यदपत्यं निशाचरः।
केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ 7.5.39 ॥
प्रहस्तोऽकम्पनश्चैव विकटः कालकार्मुखः।
धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥ 7.5.40 ॥
राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता।
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ 7.5.41 ॥
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी।
भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥ 7.5.42 ॥
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो।
अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ 7.5.43 ॥
अनिलश्चानलश्चैव हरः सम्पातिरेव च।
एते विभीषणामात्या मालेयास्तु निशाचरः ॥ 7.5.44 ॥
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः।
सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥ 7.5.45 ॥
जगद्भ्रमन्तोऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः।
वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ॥ 7.5.46 ॥