श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः।
कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ॥ 7.4.1 ॥
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम्।
तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत ॥ 7.4.2 ॥
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम्।
श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ॥ 7.4.3 ॥
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम्।
इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ॥ 7.4.4 ॥
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि।
रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥ 7.4.5 ॥
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः।
अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ॥ 7.4.6 ॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ।
कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ॥ 7.4.7 ॥
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम्।
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ॥ 7.4.8 ॥
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः।
तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ॥ 7.4.9 ॥
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः।
किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥ 7.4.10 ॥
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव।
आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥ 7.4.11 ॥
रक्षामेति च तत्रान्ये जक्षाम इति चापरे।
भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ 7.4.12 ॥
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः।
जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ 7.4.13 ॥
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ।
मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ॥ 7.4.14 ॥
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा।
हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ॥ 7.4.15 ॥
स कालभगिनीं कन्यां भयां नाम भयावहाम्।
उदावहदमेयात्मा स्वयमेव महामतिः ॥ 7.4.16 ॥
स तस्यां जनयामास हेती राक्षसपुङ्गवः।
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ 7.4.17 ॥
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः।
व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥ 7.4.18 ॥
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः।
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥ 7.4.19 ॥
सन्ध्यायास्तनयां सोऽथ सन्ध्यातुल्यां प्रभावतः।
वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ॥ 7.4.20 ॥
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया।
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ 7.4.21 ॥
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः।
रमते स्म तया सार्धं पौलोम्या मघवानिव ॥ 7.4.22 ॥
केनचित्त्वथ कालेन राम सालकटङ्कटा।
विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ॥ 7.4.23 ॥
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम्।
प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥ 7.4.24 ॥
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी।
रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ॥ 7.4.25 ॥
तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः।
निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ॥ 7.4.26 ॥
ततो वृषभमास्थाय पार्वत्या सहितः शिवः।
वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ॥ 7.4.27 ॥
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम्।
कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ॥ 7.4.28 ॥
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम्।
अमरं चैव तं कृत्वा महादेवोऽक्षरोऽव्ययः ॥ 7.4.29 ॥
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया।
उमयापि वरो दत्तो राक्षसानां नृपात्मज ॥ 7.4.30 ॥
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च।
सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ॥ 7.4.31 ॥
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः।
चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ॥ 7.4.32 ॥