००३ कुबेरः

अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः।
अचिरेणैव कालेन पितेव तपसि स्थितः ॥ 7.3.1 ॥
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः।
सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ 7.3.2 ॥
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः।
ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् ॥ 7.3.3 ॥
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा।
प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् ॥ 7.3.4 ॥
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः।
स तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् ॥ 7.3.5 ॥
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम्।
तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः ॥ 7.3.6 ॥
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति।
नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा ॥ 7.3.7 ॥
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव।
तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः ॥ 7.3.8 ॥
स तु वैश्रवणस्तत्र तपोवनगतस्तदा।
अवर्धताहुतिहुतो महातेजा यथानलः ॥ 7.3.9 ॥
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः।
चरिष्ये परमं धर्मं धर्मो हि परमा गतिः ॥ 7.3.10 ॥
स तु वर्षसहस्राणि तपस्तप्त्वा महावने।
यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः ॥ 7.3.11 ॥
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत्।
जलाशी मारुताहारो निराहारस्तथैव च ॥ 7.3.12 ॥
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत्।
अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह ॥ 7.3.13 ॥
परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत।
वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते ॥ 7.3.14 ॥
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम्।
भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् ॥ 7.3.15 ॥
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा।
ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् ॥ 7.3.16 ॥
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः ॥ 7.3.17 ॥
तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि।
शक्राम्बुपयमानां च चतुर्थस्त्वं भविष्यसि ॥ 7.3.18 ॥
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम्।
प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज ॥ 7.3.19 ॥
स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम्।
कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् ॥ 7.3.20 ॥
इत्युक्त्वा स गतो ब्रह्मा स्वस्थानं त्रिदशैः सह ॥ 7.3.21 ॥
वने स पितरं प्राह प्राञ्जलिः प्रयतात्मवान्।
निवासनं न मे देवो विदधे स प्रजापतिः ॥ 7.3.22 ॥
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात्।
तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो ॥ 7.3.23 ॥
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित्।
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः ॥ 7.3.24 ॥
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः।
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ॥ 7.3.25 ॥
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा।
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा ॥ 7.3.26 ॥
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती।
तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः ॥ 7.3.27 ॥
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता।
रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा ॥ 7.3.28 ॥
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः।
शून्या रक्षोगणैः सर्वै रसातलतलं गतैः ॥ 7.3.29 ॥
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या न विद्यते।
स त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् ॥ 7.3.30 ॥
निर्दोषस्तत्र ते वासो न बाधास्तत्र कस्यचित्।
एतच्छुत्वा स धर्मात्मा धर्मिष्ठं वचनं पितुः ॥ 7.3.31 ॥
निवासयामास तदा लङ्कां पर्वतमूर्धनि।
नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह ॥ 7.3.32 ॥
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् ॥ 7.3.33 ॥
स तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः।
समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः ॥ 7.3.34 ॥
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः।
अभ्यागच्छद्विनीतात्मा पितरं मातरं च हि ॥ 7.3.35 ॥
स देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः।
गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ स वित्तपः ॥ 7.3.36 ॥