तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।
कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ॥ 7.2.1 ॥
शृणु राम कथावृत्तं तस्य तेजोबलं महत्।
जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ 7.2.2 ॥
तावत्ते रावणस्येदं कुलं जन्म च राघव।
वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ 7.2.3 ॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः।
पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ 7.2.4 ॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा।
प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ 7.2.5 ॥
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः।
हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ 7.2.6 ॥
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः।
तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ 7.2.7 ॥
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः।
गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ 7.2.8 ॥
देवपन्नगकन्याश्च राजर्षितनयाश्च याः।
क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे ॥ 7.2.9 ॥
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च।
नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ 7.2.10 ॥
गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च।
मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ 7.2.11 ॥
अथ क्रुद्धो महातेजा व्याजहार महामुनिः।
या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ 7.2.12 ॥
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः।
ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ 7.2.13 ॥
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ 7.2.14 ॥
गत्वाश्रमपदं तत्र विचचार सुनिर्भया।
न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ॥ 7.2.15 ॥
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः।
स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ 7.2.16 ॥
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम्।
अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ 7.2.17 ॥
वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः।
इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥ 7.2.18 ॥
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत्।
किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ 7.2.19 ॥
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम्।
न जाने कारणं तात येन मे रूपमीदृशम् ॥ 7.2.20 ॥
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः।
पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ 7.2.21 ॥
न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम्।
रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥ 7.2.22 ॥
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः।
ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ 7.2.23 ॥
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः।
गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ 7.2.24 ॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम्।
भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ 7.2.25 ॥
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते।
शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ 7.2.26 ॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा।
जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ 7.2.27 ॥
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः।
सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ 7.2.28 ॥
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः।
प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ 7.2.29 ॥
परितुष्टोऽस्मि सुश्रोणि गुणानां सम्पदा भृशम्।
तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ॥ 7.2.30 ॥
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम्।
यस्मात्तु विश्रुतो वेदस्त्वयैषोऽध्ययतो मम ॥ 7.2.31 ॥
तस्मात्स विश्रवा नाम भविष्यति न संशयः।
एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ॥ 7.2.32 ॥
अचिरेणैव कालेनासूत विश्रवसं सुतम्।
त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ 7.2.33 ॥
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा।
पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ 7.2.34 ॥