००१ अगस्त्यादि-मेलनम्

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते।
आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥ 7.1.1 ॥
कौशिकोऽथ यवक्रीतो गार्ग्यो गालव एव च।
कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ 7.1.2 ॥
[अगस्त्योऽत्रिश्च भगवान्सुमुखो विमुखस्तथा ॥ ] आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥ 7.1.3 ॥
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः।
तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥ 7.1.4 ॥
वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रः सगौतमः।
जमदग्निर्भरद्वाजस्तेऽपि सप्तर्षयस्तथा ॥ 7.1.5 ॥
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥ 7.1.6 ॥
विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः।
वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ 7.1.7 ॥
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः।
निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥ 7.1.8 ॥
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम्।
समीपं राघवस्याशु प्रविवेश महात्मनः ॥ 7.1.9 ॥
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः।
स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ॥ 7.1.10 ॥
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ॥ 7.1.11 ॥
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान्।
प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ॥ 7.1.12 ॥
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः।
पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ॥ 7.1.13 ॥
रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह।
तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ॥ 7.1.14 ॥
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च।
यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ 7.1.15 ॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः।
महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ 7.1.16 ॥
कुशलं नो महाबाहो सर्वत्र रघुनन्दन।
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ 7.1.17 ॥
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः।
न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥ 7.1.18 ॥
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः।
दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ 7.1.19 ॥
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया।
लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ॥ 7.1.20 ॥
दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः।
अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ 7.1.21 ॥
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते।
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥ 7.1.22 ॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ।
दिष्ट्या ते निहता राम महावीर्या निशाचराः ॥ 7.1.23 ॥
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ।
दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ 7.1.24 ॥
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ।
यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥ 7.1.25 ॥
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः।
अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥ 7.1.26 ॥
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः।
देवतानामवध्येन विजयं प्राप्तवानसि ॥ 7.1.27 ॥
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः।
द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ 7.1.28 ॥
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः।
मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ 7.1.29 ॥
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम्।
सोऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ 7.1.30 ॥
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ 7.1.31 ॥
एते चान्ये च बहवो राक्षसाः कामरूपिणः।
दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ॥ 7.1.32 ॥
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम्।
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ 7.1.33 ॥
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम्।
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ 7.1.34 ॥
भगवन्तः कुम्भकर्णं रावणं च निशाचरम्।
अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ 7.1.35 ॥
मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ।
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ॥ 7.1.36 ॥
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम्।
अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥ 7.1.37 ॥
कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः।
केन वा कारणेनैष रावणादतिरिच्यते ॥ 7.1.38 ॥
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः।
यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥ 7.1.39 ॥
शक्रोऽपि विजितस्तेन कथं लब्धवरश्च सः।
कथं च बलवानन्पुत्रो न पिता तस्य रावणः ॥ 7.1.40 ॥
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः।
वराश्च लब्धाः कथयस्व मेऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ 7.1.41 ॥