शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ 6.131.1 ॥
पूजिता मामिका माता दत्तं राज्यमिदं मम।
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ 6.131.2 ॥
धुरमेकाकिना न्यस्तामृषभेण बलीयसा।
किशोरवद् गुरुं भारं न वोढुमहमुत्सहे ॥ 6.131.3 ॥
वारिवेगेन महता भिन्नः सेतुरिव क्षरन्।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ 6.131.4 ॥
गतिं खर इवाश्वस्य हंसस्येव च वायसः।
नान्वेतुमुत्सह राम तव मार्गमरिन्दम ॥ 6.131.5 ॥
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने।
महांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ॥ 6.131.6 ॥
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्।
तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ 6.131.7 ॥
एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि।
यद्यस्मान् मनुजेन्द्रं त्वं भक्तान् भृत्यान्न शाधि हि ॥ 6.131.8 ॥
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ 6.131.9 ॥
तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ 6.131.10 ॥
यावदावर्तते चक्रं यावती च वसुन्धरा।
तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥ 6.131.11 ॥
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः।
तथेति प्रतिजग्राह निषसादासने शुभे ॥ 6.131.12 ॥
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः।
सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ 6.131.13 ॥
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ 6.131.14 ॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः।
महार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ 6.131.15 ॥
प्रतिकर्म च रामस्य कारयामास वीर्यवान्।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ 6.131.16 ॥
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ 6.131.17 ॥
ततो वानरपत्नीनां सर्वासामेव शोभनम्।
चकार यत्नात् कौसल्या प्रहृष्टा पुत्रलालसा ॥ 6.131.18 ॥
ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः।
योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ 6.131.19 ॥
अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथोत्तमम्।
आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ 6.131.20 ॥
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ 6.131.21 ॥
वराभरणसम्पन्ना ययुस्ताः शुभकुण्डलाः।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ 6.131.22 ॥
अयोध्यायां तु सचिवा राज्ञो दशरथस्य य।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ 6.131.23 ॥
अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः।
मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ 6.131.24 ॥
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः।
कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ 6.131.25 ॥
इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम्।
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ 6.131.26 ॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः।
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ 6.131.27 ॥
जग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् ॥ 6.131.28 ॥
श्वेतं च वालव्यजनं जग्राह पुरतः स्थितः।
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ 6.131.29 ॥
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ 6.131.30 ॥
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्।
आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ 6.131.31 ॥
नवनागसहस्राणि ययुरास्थाय वानराः।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ 6.131.32 ॥
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ 6.131.33 ॥
ददृशुस्ते समायान्तं राघवं सपुरस्सरम्।
विराजमानं वपुषा रथेनातिरथं तदा ॥ 6.131.34 ॥
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ 6.131.35 ॥
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ 6.131.36 ॥
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ 6.131.37 ॥
अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ 6.131.38 ॥
वानराणां च तत् कर्म राक्षसानां च तद्बलम्।
विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम् ॥ 6.131.39 ॥
श्रुत्वा तु विस्मियं जग्मुरयोध्यापुरवासिनः ॥ 6.131.40 ॥
द्युतिमानेतदाख्याय रामो वानरसंवृतः।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ 6.131.41 ॥
ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे ॥ 6.131.42 ॥
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ 6.131.43 ॥
अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम्।
अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ 6.131.44 ॥
पितुर्भवनमासाद्य प्रविश्य च महात्मनः।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ 6.131.45 ॥
यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्।
मुक्तावैडूर्यसङ्कीर्णं सुग्रीवाय निवेदय ॥ 6.131.46 ॥
तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः।
पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ 6.131.47 ॥
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ 6.131.48 ॥
उवाच च महातेजाः सुग्रीवं राघवानुजः।
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ 6.131.49 ॥
सौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्।
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ 6.131.50 ॥
यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ 6.131.51 ॥
एवमुक्ता महात्मानो वानरा वारणोपमाः।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ 6.131.52 ॥
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानराः।
ऋषभश्चैव कलशान् जलपूर्णानथानयन् ॥ 6.131.53 ॥
नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ 6.131.54 ॥
पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत्।
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ॥ 6.131.55 ॥
ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत्।
रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ 6.131.56 ॥
गवयः पश्चिमात्तोयमाजहार महार्णवात्।
रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ 6.131.57 ॥
उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः।
आजहार स धर्मात्मा नलः सर्वगुणान्वितः ॥ 6.131.58 ॥
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह।
पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ 6.131.59 ॥
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ 6.131.60 ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः।
कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ 6.131.61 ॥
अभ्यषिञ्चन् नरव्याघ्रं प्रसन्नेन सुगन्धिना।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ 6.131.62 ॥
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा।
योधैश्चैवाभ्यषिञ्चंस्ते सम्प्रहृष्टाः सनैगमैः ॥ 6.131.63 ॥
सर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः।
चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ॥ 6.131.64 ॥
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः।
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ 6.131.65 ॥
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्।
राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ 6.131.66 ॥
सर्वरत्नसमायुक्तं मणिरत्नविभूषितम्।
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ 6.131.67 ॥
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः।
अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ 6.131.68 ॥
भूमिः सस्यवती चैव फलवन्तश्च पादपाः।
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥ 6.131.69 ॥
सहस्रशतमश्वानां धेनूनां च गवां तथा।
ददौ शतं वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः ॥ 6.131.70 ॥
त्रिंशत्कोटीर्हिरण्यस्य ब्रह्मणेभ्यो ददौ पुनः।
नानाभरणवस्त्राणि महार्हणि च राघवः ॥ 6.131.71 ॥
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्।
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ 6.131.72 ॥
वैडूर्यमणिचित्रे च वज्ररत्नविभूषिते।
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ 6.131.73 ॥
मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम्।
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥ 6.131.74 ॥
अरजे वाससी दिव्ये शुभान्याभरणानि च।
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ 6.131.75 ॥
अवमुच्यात्मनः कण्टाद्धारं जनकनन्दिनी।
अवैक्षत हरीन् सर्वान् भर्तारं च मुहूर्मुहुः ॥ 6.131.76 ॥
प्रदेहि सुभगे हारं यस्य तुष्टाऽसि भामिनि।
पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ 6.131.77 ॥
हनुमांस्तेन हारेण शुशुभे वानरर्षभः।
चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाऽचलः ॥ 6.131.78 ॥
ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः।
सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः ॥ 6.131.79 ॥
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ 6.131.80 ॥
विभीषणोऽथ सुग्रीवो हनुमान् जाम्बवांस्तथा।
सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ 6.131.81 ॥
यथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ 6.131.82 ॥
नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः।
विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ 6.131.83 ॥
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ॥ 6.131.84 ॥
लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ 6.131.85 ॥
स राज्यमखिलं शासन्निहतारिर्महायशाः।
राघवः परमोदारः शशास परया मुदा ॥ 6.131.86 ॥
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ 6.131.87 ॥
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन।
तुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व ॥ 6.131.88 ॥
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्।
नियुज्यमानोऽपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ 6.131.89 ॥
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्।
अन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवर्षभः ॥ 6.131.90 ॥
राज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः।
शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥ 6.131.91 ॥
आजानुलम्बबाहुः स महास्कन्धः प्रतापवान्।
लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ 6.131.92 ॥
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ 6.131.93 ॥
न पर्यदेवन् विधवा न च व्यालकृतं भयम्।
न व्याधिजं भयं वापि रामे राज्यं प्रशासति ॥ 6.131.94 ॥
निर्दस्युरभवल्लोको नानर्थः कञ्चिदस्पृशत्।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ 6.131.95 ॥
सर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्।
राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ॥ 6.131.96 ॥
आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः।
निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ 6.131.97 ॥
रामो रामो राम इति प्रजानामभवन् कथाः।
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ 6.131.98 ॥
नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः।
काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ 6.131.99 ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ 6.131.100 ॥
आसन् प्रजा धर्मरता रामे शासति नानृताः।
सर्वे लक्षण सम्पन्नाः सर्वे धर्मपरायणाः ॥ 6.131.101 ॥
दश वर्षसहस्राणि दश वर्षशतानि च।
भ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत् ॥ 6.131.102 ॥
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकीना कृतम्।
यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ 6.131.103 ॥
पुत्रकामस्तु पुत्रान् वै धनकामो धनानि च।
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ 6.131.104 ॥
महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति।
राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ 6.131.105 ॥
भरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः।
[भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः] ॥ 6.131.106 ॥
श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति।
रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ 6.131.107 ॥
शृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम्।
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ 6.131.108 ॥
समागमं प्रवासान्ते लभते चापि बान्धवैः।
प्रार्थितांश्च वरान् सर्वान् प्राप्नुयादिह राघवात् ॥ 6.131.109 ॥
श्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्।
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ 6.131.110 ॥
विजयेत महीं राजा प्रवासी स्वस्तिमान् व्रजेत्।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ 6.131.111 ॥
पूजयंश्च पठंश्चेममितिहासं पुरातनम्।
सर्वपापात् प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ 6.131.112 ॥
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्।
ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ 6.131.113 ॥
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा।
प्रीयते सततं रामः स हि विष्णुः सनातनः ॥ 6.131.114 ॥
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः।
[साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते] ॥ 6.131.115 ॥
कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च।
श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ 6.131.116 ॥
आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं सुखं च।
श्रोतव्यमेतन्नियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः ॥ 6.131.117 ॥
एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ 6.131.118 ॥
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा।
रामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ 6.131.119 ॥
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्।
लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ 6.131.120 ॥