१३० नन्दिग्रामे भरतप्रतीक्षा

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः।
हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ 6.130.1 ॥
दैवतानि च सर्वाणि चैत्यानि नगरस्य च।
सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥ 6.130.2 ॥
सर्वे वादित्रकुशला गणिकाश्चापि सङ्घशः।
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ॥ 6.130.3 ॥
भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा।
विष्टीरनेकसाहस्राश्चोदयामास वीर्यवान् ॥ 6.130.4 ॥
समीकुरुत निम्नानि विषमाणि समानि च।
स्थलानि च निरस्यन्तां नन्दिग्रामादितः परम् ॥ 6.130.5 ॥
सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा।
ततोऽभ्यव किरन्त्वन्ये लाजैः पुष्पैश्च सर्वशः ॥ 6.130.6 ॥
समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे।
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति ॥ 6.130.7 ॥
स्रग्दामभिर्मुक्तपुष्पैः सुगन्धैः पञ्चवर्णकैः।
राजमार्गमसम्बाधं किरन्तु शतशो नराः ॥ 6.130.8 ॥
राजदारास्तथाऽमात्याः सैन्याः सेनागणाङ्गनाः।
ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः ॥ 6.130.9 ॥
धृष्टिर्जयन्तो विजयः सिद्धार्थो ह्यर्थसाधकः।
अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः ॥ 6.130.10 ॥
मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितैः ॥ 6.130.11 ॥
अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः।
निर्ययुस्तुरगाक्रान्तै रथैश्च सुमहारथाः ॥ 6.130.12 ॥
तुरगाणां सहस्रैश्च मुख्यैर्मुख्यनरान्वितैः।
पदातीनां सहस्रैश्च वीराः परिवृता ययुः ॥ 6.130.13 ॥
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः।
कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥ 6.130.14 ॥
कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् ॥ 6.130.15 ॥
कृत्स्नं च नगरं तत्तु नन्दिग्राममुपागमत् ॥ 6.130.16 ॥
अश्वानां खुरशब्देन रथनेमिस्वनेन च।
शङ्खदुन्दुभिनादेन सञ्चचालेव मेदिनी ॥ 6.130.17 ॥
द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः।
माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः ॥ 6.130.18 ॥
शङ्खभेरीनिनादैश्च वन्दिभिश्चाभिवन्दितः।
आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ॥ 6.130.19 ॥
पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम्।
शुक्ले च वालव्यजने राजार्हे हेमभूषिते ॥ 6.130.20 ॥
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः।
प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ॥ 6.130.21 ॥
समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ॥ 6.130.22 ॥
नहि पश्यामि काकुत्स्थं राममार्यं परन्तपम्।
कच्चिन्न खलु दृश्यन्ते वानराः कामरूपिणः ॥ 6.130.23 ॥
अथैवमुक्ते वचने हनुमानिदमब्रवीत्।
अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥ 6.130.24 ॥
सदाफलान् कुसुमितान् वृक्षान् प्राप्य मधुस्रवान्।
भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ॥ 6.130.25 ॥
तस्य चैष वरो दत्तो वासवेन परन्तप।
ससैन्यस्य तथाऽऽतिथ्यं कृतं सर्वगुणान्वितम् ॥ 6.130.26 ॥
निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम्।
मन्ये वानरसेना सा नदीं तरति गोमतीम् ॥ 6.130.27 ॥
रजोवर्षं समुद्धूतं पश्य वालुकिनीं प्रति ॥ 6.130.28 ॥
मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः ॥ 6.130.29 ॥
तदेतद्दृश्यते दूराद्विमलं चन्द्रसन्निभम्।
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥ 6.130.30 ॥
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ॥ 6.130.31 ॥
तरुणादित्यसङ्काशं विमानं रामवाहनम्।
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ॥ 6.130.32 ॥
एतस्मिन् भ्रातरौ वीरौ वैदेह्या सह राघवौ।
सुग्रीवश्च महातेजा राक्षसश्च विभीषणः ॥ 6.130.33 ॥
ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत्।
स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते ॥ 6.130.34 ॥
रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः।
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥ 6.130.35 ॥
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः।
स्वागतेन यथार्थेन ततो राममपूजयत् ॥ 6.130.36 ॥
मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः।
रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः ॥ 6.130.37 ॥
ततो विमानाग्रगतं भरतो भ्रातरं तदा।
ववन्दे प्रयतो रामं मेरुस्थमिव भास्करम् ॥ 6.130.38 ॥
ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम्।
हंसुयुक्तं महावेगं निष्पपात महीतले ॥ 6.130.39 ॥
आरोपितो विमानं तद्भरतः सत्यविक्रमः।
राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ 6.130.40 ॥
तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम्।
अङ्के भरतमारोप्य मुदितः परिषस्वजे ॥ 6.130.41 ॥
ततो लक्ष्मणमासाद्य वैदेहीं चाभ्यवादयत्।
अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् ॥ 6.130.42 ॥
सुग्रीवं केकयीपुत्रो जाम्बवन्तं तथाऽङ्गदम्।
मैन्दं च द्विविदं नीलमृषभं परिषस्वजे ॥ 6.130.43 ॥
सुषेणं च नलं चैव गवाक्षं गन्धमादनम्।
शरभं पनसं चैव भरतः परिषस्वजे ॥ 6.130.44 ॥
ते कृत्वा मानुषं रूपं वानराः कामरूपिणः।
कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा ॥ 6.130.45 ॥
अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम्।
परिष्वज्य महातेजा भरतो धर्मिणां वरः ॥ 6.130.46 ॥
त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः।
सौहृदाज्जायते मित्रमपकारोऽरिलक्षणम् ॥ 6.130.47 ॥
विभीषणां च भरतः सान्त्ववाक्यमथाब्रवीत्।
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ॥ 6.130.48 ॥
शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम्।
सीतायाश्चारणौ पश्चाद्विनयादभ्यवादयत् ॥ 6.130.49 ॥
रामो मातरमासाद्य विषण्णां शोककर्शिताम्।
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ॥ 6.130.50 ॥
अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम्।
स मातॄश्च ततः सर्वाः पुरोहितमुपागतम् ॥ 6.130.51 ॥
स्वागतं तै महाबाहो कौसल्यानन्दवर्धन।
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ॥ 6.130.52 ॥
तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः।
व्याकोशानीव पद्मानि ददर्श भरताग्रजः ॥ 6.130.53 ॥
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित्।
अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ॥ 6.130.54 ॥
एतत्ते रक्षितं राजन् राज्यं निर्यातितं मया।
अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ॥ 6.130.55 ॥
अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम्।
भवतस्तेजसा सर्वं कृतं दशगुणं मया ॥ 6.130.56 ॥
तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम्।
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥ 6.130.57 ॥
ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः।
ययौ तेन विमानेन ससैन्यो भरताश्रमम् ॥ 6.130.58 ॥
भरताश्रममासाद्य ससैन्यो राघवस्तदा।
अवतीर्य विमानाग्रादवतस्थे महीतले ॥ 6.130.59 ॥
अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम्।
वह वैश्रवणं देवमनुजानामि गम्यताम् ॥ 6.130.60 ॥
ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम्।
उत्तरां दिशमागम्य जगाम धनदालयम् ॥ 6.130.61 ॥
पुरोहितस्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः।
निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश राघवः ॥ 6.130.62 ॥