बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्।
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥ 6.129.1 ॥
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ 6.129.2 ॥
राघवस्य हरीणां च कथमासीत् समागमः।
कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥ 6.129.3 ॥
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः।
आचचक्षे ततः सर्वं रामस्य चरितं वने ॥ 6.129.4 ॥
यथा प्रव्राजितो रामो मातुर्दत्तो वरस्तव।
यथा च पुत्रशोकेन राजा दशरथो मृतः ॥ 6.129.5 ॥
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो।
त्वयाऽयोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥ 6.129.6 ॥
चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शन।
निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम् ॥ 6.129.7 ॥
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्।
आर्यस्य पादुके गृह्य यथाऽसि पुनरागतः ॥ 6.129.8 ॥
सर्वमेतन्महाबाहो यथावद्विदितं तव।
त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे ॥ 6.129.9 ॥
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्।
परिद्यूनमिवात्यर्थं तद्वनं समपद्यत ॥ 6.129.10 ॥
तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगायुतम्।
प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ॥ 6.129.11 ॥
तषां पुरस्ताद्बलवान् गच्छतां गहने वने।
निनदन् सुमहानादं विराधः प्रत्यदृश्यत ॥ 6.129.12 ॥
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्।
निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ॥ 6.129.13 ॥
तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ।
सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ॥ 6.129.14 ॥
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः।
अभिवाद्य मुनीन् सर्वान् जनस्थानमुपागमत् ॥ 6.129.15 ॥
ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता ॥ 6.129.16 ॥
ततो रामेण सन्दिष्टो लक्ष्मणः सहसोत्थितः।
प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः ॥ 6.129.17 ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
हतानि वसता तत्र राघवेण महात्मना ॥ 6.129.18 ॥
एकेन सह सङ्गम्य रणे रामेण सङ्गताः।
अह्नश्चतुर्थभागेन निश्शोषा राक्षसाः कृताः ॥ 6.129.19 ॥
महाबला महावीर्यास्तपसो विघ्नकारिणः।
निहता राघवेणाजौ दण्डकारण्यवासिनः ॥ 6.129.20 ॥
राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे ॥ 6.129.21 ॥
ततस्तेनार्दिता बाला रावणं समुपागता ॥ 6.129.22 ॥
रावणानुचरो घोरो मारीचो नाम राक्षसः।
लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ॥ 6.129.23 ॥
अथैनमब्रवीद्रामं वैदेही गृह्यतामिति।
अहो मनोहरः कान्त आश्रमो नो भविष्यति ॥ 6.129.24 ॥
ततो रामो धनुष्पाणिर्धावन्तमनुधावति।
स तं जघान धावन्तं शरेणानतपर्वणा ॥ 6.129.25 ॥
अथ सौम्य दशग्रीवो मृगं याते तु राघवे।
लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ॥ 6.129.26 ॥
जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव।
त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् ॥ 6.129.27 ॥
प्रगृह्य सीतां सहसा जगामाशु स रावणः ॥ 6.129.28 ॥
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः।
ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥ 6.129.29 ॥
प्रविवेश ततो लङ्कां रावणो लोकरावणः ॥ 6.129.30 ॥
तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि।
प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः ॥ 6.129.31 ॥
तृणवद्भाषितं तस्य तं च नैर्ऋतपुङ्गवम्।
अचिन्तयन्ती वैदेही अशोकवनिकां गता ॥ 6.129.32 ॥
न्यवर्तत ततो रामो मृगं हत्वा महावने ॥ 6.129.33 ॥
निवर्तमानः काकुत्स्थोऽदृष्ट्वा गृध्रं प्रविव्यथे ॥ 6.129.34 ॥
मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः।
गोदावरीमन्वचरद्वनोद्देशांश्च पुष्पितान् ॥ 6.129.35 ॥
आसेदतुर्महारण्ये कबन्धं नाम राक्षसम् ॥ 6.129.36 ॥
ततः कबन्धवचनाद्रामः सत्यपराक्रमः।
ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः ॥ 6.129.37 ॥
तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत ॥ 6.129.38 ॥
भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा ॥ 6.129.39 ॥
इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः ॥ 6.129.40 ॥
रामस्य बाहुवीर्येण स्वराज्यं प्रत्यपादयत्।
वालिनं समरे हत्वा महाकायं महाबलम् ॥ 6.129.41 ॥
सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः ॥ 6.129.42 ॥
रामाय प्रतिजानीते राजपुत्र्याश्च मार्गणम् ॥ 6.129.43 ॥
आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना।
दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः ॥ 6.129.44 ॥
तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे।
भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत ॥ 6.129.45 ॥
भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान्।
समाख्याति स्म वसतिं सीताया रावणालये ॥ 6.129.46 ॥
सोऽहं शोकपरीतानां दुःखं तज्ज्ञातिनां नुदन्।
आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः ॥ 6.129.47 ॥
तत्राहमेकामद्राक्षमशोकवनिकां गताम्।
कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् ॥ 6.129.48 ॥
तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम्।
अभिज्ञानं च मे दत्तमर्चिष्मान् स महामणिः ॥ 6.129.49 ॥
अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः ॥ 6.129.50 ॥
मया च पुनरागम्य रामस्याक्लिष्टकर्मणः।
अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः ॥ 6.129.51 ॥
श्रुत्वा तु मैथिलीं हृष्टस्त्वाशशंसे च जीवितम्।
जीवितान्तमनुप्राप्तः पीत्वाऽमृतमिवातुरः ॥ 6.129.52 ॥
उद्योजयिष्यन्नुद्योगं दध्रे कामं वधे मनः।
जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः ॥ 6.129.53 ॥
ततः समुद्रमासाद्य नलं सेतुमकारयत्।
अतरत् कपिवीराणां वाहिनी तेन सेतुना ॥ 6.129.54 ॥
प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः।
लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ॥ 6.129.55 ॥
स शक्रेण समागम्य यमेन वरुणेन च।
महेश्वरस्वयम्भूभ्यां तथा दशरथेन च ॥ 6.129.56 ॥
तैश्च दत्तवरः श्रीमानृषिभिश्च समागतः।
सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परन्तपः ॥ 6.129.57 ॥
स तु दत्तवरः प्रीत्या वानरैश्च समागतः।
पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् ॥ 6.129.58 ॥
तं गङ्गां पुनरासाद्य वसन्तं मुनिसन्निधौ।
अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ 6.129.59 ॥
ततस्तु सत्यं हनुमद्वचो महन्निशम्य हृष्टो भरतः कृताञ्जलिः।
उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः ॥ 6.129.60 ॥