अयोध्यां तु समालोक्य चिन्तयामास राघवः।
चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥ 6.128.1 ॥
जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ॥ 6.128.2 ॥
शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम्।
निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥ 6.128.3 ॥
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम्।
भविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥ 6.128.4 ॥
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च।
निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ॥ 6.128.5 ॥
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम।
सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ॥ 6.128.6 ॥
हरणं चापि वैदेह्या रावणेन बलीयसा ॥ 6.128.7 ॥
सुग्रीवेण च संसर्गं वालिनश्च वधं रणे।
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ॥ 6.128.8 ॥
लङ्घयित्वा महातोयमापगापतिमव्ययम्।
उपयानं समुद्रस्य सागरस्य च दर्शनम् ॥ 6.128.9 ॥
यथा च कारितः सेतू रावणश्च यथा हतः।
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ॥ 6.128.10 ॥
महादेवप्रसादाच्च पित्रा मम समागमम्।
उपयातं च मां सौम्य भरतस्य निवेदय ॥ 6.128.11 ॥
सह राक्षसराजेन हरीणां प्रवरेण च ॥ 6.128.12 ॥
एतच्छुत्वा यमाकारं भजते भरतस्तदा।
स च ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति ॥ 6.128.13 ॥
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः।
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ 6.128.14 ॥
ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च।
तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ॥ 6.128.15 ॥
सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम्।
पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥ 6.128.16 ॥
सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत्।
प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः ॥ 6.128.17 ॥
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर।
यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि ॥ 6.128.18 ॥
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः।
मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ ॥ 6.128.19 ॥
अथोत्पपात वेगेन हनुमान् मारुतात्मजः।
गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ॥ 6.128.20 ॥
गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च।
शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ॥ 6.128.21 ॥
स वाचा शुभया हृष्टो हनुमानिदमब्रवीत् ॥ 6.128.22 ॥
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः।
सहसीतः ससौमित्रिः स त्वां कुशलमब्रवीत् ॥ 6.128.23 ॥
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः।
भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ॥ 6.128.24 ॥
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः।
उत्पपात महावेगो वेगवानविचारयन् ॥ 6.128.25 ॥
गोमतीं तां च सोऽपश्यद्भीमं सालवनं तथा।
प्रजाश्च बहुसाहस्राः स्फीतान् जनपदानपि ॥ 6.128.26 ॥
स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः।
आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान् ॥ 6.128.27 ॥
स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान्।
सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ॥ 6.128.28 ॥
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम्।
ददर्श भरतं दीनं कृशमाश्रमवासिनम् ॥ 6.128.29 ॥
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम्।
फलमूलाशिनं दान्तं तापसं धर्मचारिणम् ॥ 6.128.30 ॥
समुन्नतजटाभारं वल्कलाजिनवाससम्।
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् ॥ 6.128.31 ॥
पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम्।
चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् ॥ 6.128.32 ॥
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः।
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ॥ 6.128.33 ॥
न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम्।
परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् ॥ 6.128.34 ॥
तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम्।
उवाच प्राञ्जलिर्वाक्यं हनुमान् मरुतात्मजः ॥ 6.128.35 ॥
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम्।
अनुशोचसि काकुत्स्थं स त्वां कुशलमब्रवीत् ॥ 6.128.36 ॥
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम्।
अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः ॥ 6.128.37 ॥
निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम्।
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः ॥ 6.128.38 ॥
लक्ष्मणश्च महातेजा वैदेही च यशस्विनी।
सीता समग्रा रामेण महेन्द्रेण यथा शची ॥ 6.128.39 ॥
एवमुक्तो हनुमता भरतो भ्रातृवत्सलः।
पपात सहसा हृष्टो हर्षान्मोहं जगाम ह ॥ 6.128.40 ॥
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः।
हनुमन्तमुवाचेदं भरतः प्रियवादिनम् ॥ 6.128.41 ॥
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात्।
सिषेच भरतः श्रीमान् विपुलैरस्त्रबिन्दुभिः ॥ 6.128.42 ॥
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ 6.128.43 ॥
गवां शतसहस्रं च ग्रामाणां च शतं परम्।
सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश ॥ 6.128.44 ॥
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः।
सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः ॥ 6.128.45 ॥
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम्।
प्रहर्षितो रामदिदृक्षयाऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः ॥ 6.128.46 ॥