पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः।
भरद्वाजश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥ 6.127.1 ॥
शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे।
कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः ॥ 6.127.2 ॥
एवमुक्तस्तु रामेण भरद्वाजो महामुनिः।
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ॥ 6.127.3 ॥
पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते।
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे ॥ 6.127.4 ॥
स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम्।
पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ॥ 6.127.5 ॥
सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्।
दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिञ्जय ॥ 6.127.6 ॥
कैकेयीवचने युक्तं वन्यमूलफलाशिनम् ॥ 6.127.7 ॥
साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम्।
समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ॥ 6.127.8 ॥
सर्वं च सुखदुःखं ते विदितं मम राघव ॥ 6.127.9 ॥
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम्।
ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ॥ 6.127.10 ॥
रावणेन हृता भार्या बभूवेयमनिन्दिता।
मारीचदर्शनं चैव सीतोन्मथनमेव च ॥ 6.127.11 ॥
कबन्धदर्शनं चैव पम्पाभिगमनं तथा।
सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ॥ 6.127.12 ॥
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च।
विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ॥ 6.127.13 ॥
यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः।
सपुत्रबान्धवामात्यः सबलः सहवाहनः ॥ 6.127.14 ॥
समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः।
सर्वं ममैतद्विदितं तपसा धर्मवत्सल ॥ 6.127.15 ॥
अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर।
अर्ध्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ॥ 6.127.16 ॥
बाढमित्येव संहृष्टो धीमान् वरमयाचत।
अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ॥ 6.127.17 ॥
फलान्यमृतकल्पानि बहूनि विविधानि च।
भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ॥ 6.127.18 ॥
तथेति च प्रतिज्ञाते वचनात् समनन्तरम्।
अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः ॥ 6.127.19 ॥
निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः।
शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ॥ 6.127.20 ॥
सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा ॥ 6.127.21 ॥
ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव।
कामादुपाश्नन्ति सहस्रशस्ते मुदाऽन्विताः स्वर्गजितो यथैव ॥ 6.127.22 ॥