१२६ पुष्पके सीता-रामसंवादः

अनुज्ञातंस्तु रामेण तद्विमानमनुत्तमम्।
उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ 6.126.1 ॥
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ 6.126.2 ॥
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम्।
लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥ 6.126.3 ॥
एतदायोधनं पश्य मांसशोणितकर्दमम्।
हरीणां राक्षसानां च सीते विशसनं महत् ॥ 6.126.4 ॥
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः।
तव हेतोर्विशालाक्षि रावणो निहतो मया ॥ 6.126.5 ॥
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः।
धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥ 6.126.6 ॥
विद्युन्माली हतश्चात्र सुषेणेन महात्मना ॥ 6.126.7 ॥
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे।
अङ्गदेनात्र निहतो विकटो नाम राक्षसः ॥ 6.126.8 ॥
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ।
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः ॥ 6.126.9 ॥
अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत्।
सपत्नीनां सहस्रेण सास्रेण परिवारिता ॥ 6.126.10 ॥
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने।
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् ॥ 6.126.11 ॥
एष सेतुर्मया बद्धः सागरे सलिलार्णवे।
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः ॥ 6.126.12 ॥
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम्।
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ 6.126.13 ॥
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि।
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् ॥ 6.126.14 ॥
एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥ 6.126.15 ॥
सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम्।
एतत् पवित्रं परमं महापातकनाशनम् ॥ 6.126.16 ॥
अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः ॥ 6.126.17 ॥
अत्र राक्षसराजोऽयमाजगाम विभीषणः ॥ 6.126.18 ॥
एषा सा दृश्यते सीते किष्किन्धा चित्रकानना।
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः ॥ 6.126.19 ॥
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम्।
अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा ॥ 6.126.20 ॥
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम्।
गन्तुमिच्छे सहायोध्यां राजधानीं त्वयाऽनघ ॥ 6.126.21 ॥
एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः।
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह ॥ 6.126.22 ॥
ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान्।
स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया ॥ 6.126.23 ॥
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल।
अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर ॥ 6.126.24 ॥
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा।
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः ॥ 6.126.25 ॥
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ॥ 6.126.26 ॥
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम्।
राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥ 6.126.27 ॥
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः।
अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥ 6.126.28 ॥
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना।
आहूय चाब्रवीत् सर्वा वानराणां तु योषितः ॥ 6.126.29 ॥
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः।
मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ 6.126.30 ॥
प्रवेशं चापि रामस्य पौरजानपदैः सह।
विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥ 6.126.31 ॥
नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम्।
अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया ॥ 6.126.32 ॥
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः।
ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् ॥ 6.126.33 ॥
दृश्यतेऽसौ महान् सीते सविद्युदिव तोयदः।
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः ॥ 6.126.34 ॥
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः।
समयश्च कृतः सीते वधार्थं वालिनो मया ॥ 6.126.35 ॥
त्वया विहीनो यत्राहं विललाप सुदुःखितः।
अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ॥ 6.126.36 ॥
अत्र योजनबाहुश्च कबन्धो निहतो मया ॥ 6.126.37 ॥
यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि।
रावणस्य नृशंसस्य जटायोश्च महात्मनः ॥ 6.126.38 ॥
त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः।
एतत्तदाश्रमपदमस्माकं वरवर्णिनि ॥ 6.126.39 ॥
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना।
यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥ 6.126.40 ॥
एषा गोदावरी रम्या प्रसन्नसलिला शिवा।
अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि ॥ 6.126.41 ॥
दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ॥ 6.126.42 ॥
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान्।
उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ॥ 6.126.43 ॥
अस्मिन् देशे महाकायो विराधो निहतो मया ॥ 6.126.44 ॥
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानप्रभः।
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥ 6.126.45 ॥
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते।
यत्र मां केकयीपुत्रः प्रसादयितुमागतः ॥ 6.126.46 ॥
एषा सा यमुना दूराद्दृश्यते चित्रकानना ॥ 6.126.47 ॥
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते ॥ 6.126.48 ॥
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि।
नानाद्विजगणाकीर्णा सम्प्रयुष्पितकानना ॥ 6.126.49 ॥
शृङ्गिवेरपुरं चैतद् गुहो यत्र समागतः ॥ 6.126.50 ॥
एषा सा दृश्यते सीते सरयूर्यूपमालिनी।
नानातरुशताकीर्णा सम्प्रपुष्पितकानना ॥ 6.126.51 ॥
एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम्।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥ 6.126.52 ॥
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः।
उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् ॥ 6.126.53 ॥
ततस्तु तां पाण्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसङ्कुलाम्।
पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथाऽमरावतीम् ॥ 6.126.54 ॥