१२५ पुष्पकविमानेन रामादीनां प्रयाणम्

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम्।
अविदूरस्थितो रामं प्रत्युवाच विभीषणः ॥ 6.125.1 ॥
स तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः।
अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ॥ 6.125.2 ॥
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः।
विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् ॥ 6.125.3 ॥
कृतप्रयत्नकर्माणो विभीषण वनौकसः।
रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय ॥ 6.125.4 ॥
सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर।
हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः ॥ 6.125.5 ॥
त इमे कृतकर्माणः पूज्यन्तां सर्ववानराः ॥ 6.125.6 ॥
धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥ 6.125.7 ॥
एव सम्मानिताश्चैते मानार्हा मानद त्वया।
भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः ॥ 6.125.8 ॥
त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम्।
सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् ॥ 6.125.9 ॥
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे।
त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् ॥ 6.125.10 ॥
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः।
रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् ॥ 6.125.11 ॥
ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान्।
आरुरोह ततो रामस्तद्विमानमनुत्तमम् ॥ 6.125.12 ॥
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम्।
लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥ 6.125.13 ॥
अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान्।
सुग्रीवं च महावीर्यं काकुत्स्थः सविभीषणम् ॥ 6.125.14 ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः।
अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत ॥ 6.125.15 ॥
यत्तु कार्यं वयस्येन सुहृदा वा परन्तप।
कृतं सुग्रीव तत् सर्वं भवताऽधर्म भीरुणा ॥ 6.125.16 ॥
विष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः ॥ 6.125.17 ॥
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण।
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ 6.125.18 ॥
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम।
अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः ॥ 6.125.19 ॥
एवमुक्तास्तु रामेण वानरास्ते महाबलाः।
ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः ॥ 6.125.20 ॥
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान्।
उद्युक्ता विचरिष्यामो वनानि नगराणि च ॥ 6.125.21 ॥
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च।
अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत ॥ 6.125.22 ॥
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः।
अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् ॥ 6.125.23 ॥
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः।
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः ॥ 6.125.24 ॥
क्षिप्रमारोह सुग्रीव विमानं वानरै सह।
त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण ॥ 6.125.25 ॥
ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया।
अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः ॥ 6.125.26 ॥
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम्।
राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् ॥ 6.125.27 ॥
ययौ तेन विमानेन हंसयुक्तेन भास्वता।
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् ॥ 6.125.28 ॥
ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः।
यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् ॥ 6.125.29 ॥