१२४ रामेण अयोध्यानिर्वर्तनसिद्धता

तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम्।
अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ 6.124.1 ॥
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च।
चन्दनानि च दिव्यानि माल्यानि विविधानि च ॥ 6.124.2 ॥
उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव।
प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ॥ 6.124.3 ॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् ॥ 6.124.4 ॥
हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ॥ 6.124.5 ॥
स तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः।
सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥ 6.124.6 ॥
तं विना केकयीपुत्रं भरतं धर्मचारिणम्।
न मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥ 6.124.7 ॥
इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम्।
अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ॥ 6.124.8 ॥
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ॥ 6.124.9 ॥
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज।
पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ॥ 6.124.10 ॥
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात्।
हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ॥ 6.124.11 ॥
त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम।
तदिदं मेघसङ्काशं विमानमिह तिष्ठति ॥ 6.124.12 ॥
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ 6.124.13 ॥
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ॥ 6.124.14 ॥
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ्।
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ 6.124.15 ॥
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि।
प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ॥ 6.124.16 ॥
प्रणयाद्वहुमानाच्च सौहृदेन च राघव।
प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ 6.124.17 ॥
एवमुक्तस्ततो रामः प्रत्युवाच विभिषणम्।
रक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ 6.124.18 ॥
पूजितोऽहं त्वया सौम्य साचिव्येन परन्तप।
सर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ 6.124.19 ॥
तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः।
मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ॥ 6.124.20 ॥
शिरसा याचतो यस्य वचनं न कृतं मया ॥ 6.124.21 ॥
कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्।
गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ 6.124.22 ॥
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर।
कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ॥ 6.124.23 ॥
अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण।
मन्युर्न खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ॥ 6.124.24 ॥
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः।
तं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥ 6.124.25 ॥
ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम्।
कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ 6.124.26 ॥
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम्।
शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥ 6.124.27 ॥
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम्।
घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ 6.124.28 ॥
यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा।
बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ॥ 6.124.29 ॥
तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः।
महार्हास्तरणो पेतैरुपपन्नं महाधनैः ॥ 6.124.30 ॥
उपस्थितमनाधृष्यं तद्विमानं मनोजवम्।
निवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ 6.124.31 ॥