प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः।
अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥ 6.123.1 ॥
अमोघं दर्शनं राम तवास्माकं परन्तप।
प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ॥ 6.123.2 ॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः।
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ 6.123.3 ॥
यदि प्रीतिः समुत्पन्नामयि सर्वसुरेश्वर।
वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ॥ 6.123.4 ॥
मम हेतोः पराक्रान्ता ये गता यमसादनम्।
ते सर्वे जिवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥ 6.123.5 ॥
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः।
मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ॥ 6.123.6 ॥
त्वत्प्रसादात् समेयुस्ते वरमेतदहं वृणे ॥ 6.123.7 ॥
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान्।
गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद ॥ 6.123.8 ॥
अकाले चापि मुख्यानि मूलानि च फलानि च।
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥ 6.123.9 ॥
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः।
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ॥ 6.123.10 ॥
महानयं वरस्तात त्वयोक्तो रघुनन्दन।
द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ॥ 6.123.11 ॥
ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः।
नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः ॥ 6.123.12 ॥
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि।
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥ 6.123.13 ॥
अकाले पुष्पशबलाः फलवन्तश्च पादपाः।
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥ 6.123.14 ॥
सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः ॥ 6.123.15 ॥
ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः।
बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ॥ 6.123.16 ॥
ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ॥ 6.123.17 ॥
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः।
ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ॥ 6.123.18 ॥
गच्छायोध्यामितो वीर विसर्जय च वानरान् ॥ 6.123.19 ॥
मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम्।
शत्रुघ्नं च महात्मानं मातॄः सर्वाः परन्तप ॥ 6.123.20 ॥
भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम्।
अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय ॥ 6.123.21 ॥
एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह।
विमानैः सूर्यसङ्काशैर्हृष्टा जग्मुः सुरा दिवम् ॥ 6.123.22 ॥
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान्।
लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ॥ 6.123.23 ॥
ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी।
श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना ॥ 6.123.24 ॥