एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम्।
इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥ 6.122.1 ॥
पुष्कराक्ष महाबाहो महावक्षः परन्तप।
दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ॥ 6.122.2 ॥
दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः।
अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम् ॥ 6.122.3 ॥
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्।
कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥ 6.122.4 ॥
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्।
इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ॥ 6.122.5 ॥
इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः।
ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥ 6.122.6 ॥
एष राजा विमानस्थः पिता दशरथस्तव।
काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥ 6.122.7 ॥
इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः।
लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥ 6.122.8 ॥
महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः।
विमानशिखरस्थस्य प्रणाममकरोत् पितुः ॥ 6.122.9 ॥
दीप्यमानं स्वया लक्ष्म्या विरजोम्बरधारिणम्।
लक्ष्मणेन सह भ्रात्रा ददर्श पितरं विभुः ॥ 6.122.10 ॥
हर्षेण महताऽऽविष्टो विमानस्थो महीपतिः।
प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ॥ 6.122.11 ॥
आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः।
बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ॥ 6.122.12 ॥
न मे स्वर्गो बहुमतः सम्मानश्च सुरर्षिभिः।
त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥ 6.122.13 ॥
अद्य त्वां निहतामित्रं दृष्ट्वा सम्पूर्णमानसम्।
निस्तीर्णवनवासं च प्रीतिरासीत् परा मम ॥ 6.122.14 ॥
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर।
तव प्रवाजनार्थानि स्थितानि हृदये मम ॥ 6.122.15 ॥
त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्।
अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः ॥ 6.122.16 ॥
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना।
अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥ 6.122.17 ॥
इदानीं तु विजानामि यथा सौम्य सुरेश्वरैः।
वधार्थं रावणस्येदं विहितं पुरुषोत्तम ॥ 6.122.18 ॥
सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्।
वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषूदन ॥ 6.122.19 ॥
सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्।
जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ॥ 6.122.20 ॥
अनुरक्तेन बलिना शुचिना धर्मचारिणा।
इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ॥ 6.122.21 ॥
चतुर्दश समाः सौम्य वने निर्यापितास्त्वया।
वसता सीतया सार्धं लक्ष्मणेन च धीमता ॥ 6.122.22 ॥
निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता।
रावणं च रणे हत्वा देवास्ते परितोषिताः ॥ 6.122.23 ॥
भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि।
इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ॥ 6.122.24 ॥
कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च।
सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ॥ 6.122.25 ॥
स शापः केकयीं घोरः सपुत्रां न स्पृशेत् प्रभो ॥ 6.122.26 ॥
स तथेति महाराजो राममुक्त्वा कृताञ्जलिम्।
लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥ 6.122.27 ॥
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया।
कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥ 6.122.28 ॥
धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि।
रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ॥ 6.122.29 ॥
रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन।
रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥ 6.122.30 ॥
एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः।
अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥ 6.122.31 ॥
एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम्।
देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ॥ 6.122.32 ॥
अवाप्तं धर्मचरणं यशश्च विपुलं त्वया।
रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ॥ 6.122.33 ॥
स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम्।
उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ॥ 6.122.34 ॥
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति।
रामेम त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ॥ 6.122.35 ॥
न त्वं सुभ्रु समाधेया पतिशुश्रूषणं प्रति।
अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥ 6.122.36 ॥
इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम्।
इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥ 6.122.37 ॥