१२१ अग्निदेवेन लङ्कागमनम्

एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्।
अङ्केनादाय वैदेहीमुत्पपात विभावसुः ॥ 6.121.1 ॥
स विधूय चितां तां तु वैदेहीं हव्यवाहनः।
उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥ 6.121.2 ॥
तरुणादित्यसङ्काशां तप्तकाञ्चनभूषणाम्।
रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥ 6.121.3 ॥
अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम्।
ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥ 6.121.4 ॥
अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः ॥ 6.121.5 ॥
एषा ते राम वैदेही पापमस्यां न विद्यते ॥ 6.121.6 ॥
नैव वाचा न मनसा नानुध्यानान्न चक्षुषा।
सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह ॥ 6.121.7 ॥
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा।
त्वया विरहिता दीना विवशा निर्जनाद्वनात् ॥ 6.121.8 ॥
रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा।
रक्षिता राक्षसीसङ्घैर्विकृतैर्घोरदर्शनैः ॥ 6.121.9 ॥
प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली।
नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ॥ 6.121.10 ॥
विशुद्धभावां निष्पापां पतिगृह्णीष्व राघव।
न किञ्चिदभिधातव्यमहमाज्ञापयामि ते ॥ 6.121.11 ॥
ततः प्रीतमना रामः श्रुत्वैतद्वदतां वरः।
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥ 6.121.12 ॥
एवमुक्तो महातेजा द्युतिमान् दृढविक्रमः।
अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ॥ 6.121.13 ॥
अवश्यं त्रिषु लोकेषु न सीता पापमर्हति।
दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा ॥ 6.121.14 ॥
बालिशः खलु कामात्मा रामो दशरथात्मजः।
इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि ॥ 6.121.15 ॥
अनन्यहृदयां भक्तां मच्चित्तपरिवर्तिनीम्।
अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् ॥ 6.121.16 ॥
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः।
उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ॥ 6.121.17 ॥
इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा।
रावणो नातिवर्तेत वेलामिव महोदधिः ॥ 6.121.18 ॥
न हि शक्तः स दुष्टात्मा मनसाऽपि हि मैथिलीम्।
प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव ॥ 6.121.19 ॥
नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा।
अनन्या हि मया सीता भास्करेण प्रभा यथा ॥ 6.121.20 ॥
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा।
न हि हातुमियं शक्या कीर्तिरात्मवता यथा ॥ 6.121.21 ॥
अवश्यं तु मया कार्यं सर्वेषां वो वचः शुभम्।
स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम् ॥ 6.121.22 ॥
इतीदमुक्त्वा विदितं महाबलैः प्रशस्यमानः स्वकृतेन कर्मणा।
समेत्य रामः प्रियया महाबलः सुखं सुखार्होऽनुबभूव राघवः ॥ 6.121.23 ॥