ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः।
दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥ 6.120.1 ॥
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः।
सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ॥ 6.120.2 ॥
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ 6.120.3 ॥
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः।
आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥ 6.120.4 ॥
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्।
अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम् ॥ 6.120.5 ॥
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः।
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥ 6.120.6 ॥
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ॥ 6.120.7 ॥
त्रयाणां त्वं हि लोकानामादिकर्ता स्वयम्प्रभुः।
रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ॥ 6.120.8 ॥
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी।
अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥ 6.120.9 ॥
उपेक्षसे च वैदेहीं मानुषः पाकृतो यथा ॥ 6.120.10 ॥
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः।
अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः ॥ 6.120.11 ॥
आत्मानं मानुषं मन्ये रामं दशरथात्मजम्।
योऽहं यस्य यतश्चाहं भगवांस्तद् ब्रवीतु मे ॥ 6.120.12 ॥
इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः।
अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम ॥ 6.120.13 ॥
भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः।
एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ॥ 6.120.14 ॥
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव।
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ॥ 6.120.15 ॥
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः।
अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः ॥ 6.120.16 ॥
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः।
प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥ 6.120.17 ॥
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्।
शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ॥ 6.120.18 ॥
सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ॥ 6.120.19 ॥
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः।
सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥ 6.120.20 ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः।
प्रभवं निधनं वा ते न विदुः को भवानिति ॥ 6.120.21 ॥
दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ 6.120.22 ॥
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक्।
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥ 6.120.23 ॥
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः।
त्रील्लोँकान् धारयन् राम देवगन्धर्वदानवान् ॥ 6.120.24 ॥
अहं ते हृदयं राम जिह्वा देवी सरस्वती।
देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो ॥ 6.120.25 ॥
निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा।
संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥ 6.120.26 ॥
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्।
अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ 6.120.27 ॥
त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः।
महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥ 6.120.28 ॥
सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः।
वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ 6.120.29 ॥
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥ 6.120.30 ॥
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः।
अमोघं दर्शनं राम न च मोघः स्तवस्तव ॥ 6.120.31 ॥
अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ॥ 6.120.32 ॥
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्।
प्राप्नुवन्ति सदा कामानिह लोके परत्र च ॥ 6.120.33 ॥
इममार्षं स्तवं नित्यमितिहासं पुरातनम्।
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ 6.120.34 ॥