एवमुक्ता तु वैदेही परुषं रोमहर्षणम्।
राघवेण सरोषेण भृशं प्रव्यथिताऽभवत् ॥ 6.119.1 ॥
सा तदश्रुतपूर्वं हि जने महति मैथिली।
श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताऽभवत् ॥ 6.119.2 ॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा।
वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ 6.119.3 ॥
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम्।
शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥ 6.119.4 ॥
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्।
रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ 6.119.5 ॥
न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि।
प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ॥ 6.119.6 ॥
पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे।
परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥ 6.119.7 ॥
यद्यहं गात्रसंस्पर्शं गताऽस्मि विवशा प्रभो।
कामकारो न मे तत्र दैवं तत्रापराध्यति ॥ 6.119.8 ॥
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते।
पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥ 6.119.9 ॥
सहसंवृद्धभावाच्च संसर्गेण च मानद।
यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ॥ 6.119.10 ॥
प्रेषितस्ते यदा वीरो हनुमानवलोककः।
लङ्कास्थाऽहं त्वया वीर किं तदा न विसर्जिता ॥ 6.119.11 ॥
प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम्।
त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥ 6.119.12 ॥
न वृथा ते श्रमोऽयं स्यात् संशये न्यस्य जीवितम्।
सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ॥ 6.119.13 ॥
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता।
लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ 6.119.14 ॥
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्।
मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥ 6.119.15 ॥
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः।
मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ॥ 6.119.16 ॥
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी।
अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ 6.119.17 ॥
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्।
मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ॥ 6.119.18 ॥
अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि।
या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥ 6.119.19 ॥
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा।
अमर्षवशमापन्नो राघवाननमैक्षत ॥ 6.119.20 ॥
स विज्ञाय ततश्छन्दं रामस्याकारसूचितम्।
चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ 6.119.21 ॥
अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम्।
उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥ 6.119.22 ॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली।
बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ 6.119.23 ॥
यथा मे हृदयं नित्यं नापसर्पति राघवात्।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ 6.119.24 ॥
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः।
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ 6.119.25 ॥
कर्मणा मनसा वाचा यथा नातिचराम्यहम्।
राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ 6.119.26 ॥
अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा।
यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम् ॥ 6.119.27 ॥
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्।
विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ॥ 6.119.28 ॥
जनः स सुमहांस्त्रस्तो बालवृद्धसमाकुलः।
ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ॥ 6.119.29 ॥
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा।
पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ॥ 6.119.30 ॥
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम्।
सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ॥ 6.119.31 ॥
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने।
पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे ॥ 6.119.32 ॥
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः।
शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ॥ 6.119.33 ॥
तस्यामग्निं विशन्त्यां तु हाहेति विपुलस्वनः।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ 6.119.34 ॥