तां तु पार्श्वस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम्।
हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे ॥ 6.118.1 ॥
एषाऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे।
पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् ॥ 6.118.2 ॥
गतोऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता।
अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥ 6.118.3 ॥
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः।
अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः ॥ 6.118.4 ॥
या त्वं विरहिता नीता चलचित्तेन रक्षसा।
दैवसम्पादितो दोषो मानुषेण मया जितः ॥ 6.118.5 ॥
सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति।
कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ॥ 6.118.6 ॥
लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम्।
सफलं तस्य तच्छ्लाध्यं महत् कर्म हनूमतः ॥ 6.118.7 ॥
युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे।
सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥ 6.118.8 ॥
निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः।
विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥ 6.118.9 ॥
इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः।
मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥ 6.118.10 ॥
पश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत।
प्रभूताज्यावसिक्त्स्य पावकस्येव दीप्यतः ॥ 6.118.11 ॥
स बद्ध्वा भ्रुकुटीं वक्त्रे तिर्यक्प्रेक्षितलोचनः।
अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् ॥ 6.118.12 ॥
यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता।
तत् कृतं सकलं सीते शत्रुहस्तादमर्षणात् ॥ 6.118.13 ॥
निर्जिता जीवलोकस्य तपसा भावितात्मना।
अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥ 6.118.14 ॥
विदितश्चास्तु ते भद्रे योऽयं रणपरिश्रमः।
स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥ 6.118.15 ॥
रक्षता तु मया वृत्तमपावदं च सर्वशः।
प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिरक्षता ॥ 6.118.16 ॥
प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता।
दीपो नेत्रातुरस्येव प्रतिकूलाऽसि मे दृढम् ॥ 6.118.17 ॥
तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे।
एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥ 6.118.18 ॥
कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम्।
तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा ॥ 6.118.19 ॥
रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा।
कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् ॥ 6.118.20 ॥
तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया।
नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥ 6.118.21 ॥
इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना।
लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् ॥ 6.118.22 ॥
सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे।
निवेशय मनः सीते यथा वा सुखमात्मनः ॥ 6.118.23 ॥
न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्।
मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् ॥ 6.118.24 ॥
ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली।
मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी ॥ 6.118.25 ॥