स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः।
रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥ 6.117.1 ॥
यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः।
तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ॥ 6.117.2 ॥
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा।
मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥ 6.117.3 ॥
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया।
भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ॥ 6.117.4 ॥
एवमुक्तो हनुमता रामो धर्मभृतां वरः।
अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः ॥ 6.117.5 ॥
दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन्।
उवाच मेघसङ्काशं विभीषणमुपस्थितम् ॥ 6.117.6 ॥
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्।
इह सीतां शिरस्स्नातामुपस्थापय मा चिरम् ॥ 6.117.7 ॥
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः।
प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ॥ 6.117.8 ॥
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता।
यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ 6.117.9 ॥
एवमुक्ता तु वेदेही प्रत्युवाच विभीषणम्।
अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥ 6.117.10 ॥
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः।
यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ॥ 6.117.11 ॥
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता।
भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ॥ 6.117.12 ॥
ततः सीतां शिरस्स्नातां युवतीभिरलङ्कृताम्।
महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥ 6.117.13 ॥
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम्।
रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥ 6.117.14 ॥
सोऽभिगम्य महात्मानं ज्ञात्वाऽपि ध्यानमास्थितम्।
प्रणतश्च प्रहृष्टश्च प्राप्तं सीतां न्यवेदयत् ॥ 6.117.15 ॥
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्।
हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ॥ 6.117.16 ॥
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन्।
विभीषणमिदं वाक्यमहृष्टं राघवोऽब्रवीत् ॥ 6.117.17 ॥
राक्षसाधिपते सौम्य नित्यं मद्विजये रत।
वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ॥ 6.117.18 ॥
स तद्वचनमाज्ञाय राघवस्य विभीषणः।
तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥ 6.117.19 ॥
कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः।
उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः ॥ 6.117.20 ॥
ऋक्षाणां वानराणां च राक्षसानां च सर्वशः।
वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा ॥ 6.117.21 ॥
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः।
वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ॥ 6.117.22 ॥
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान्।
दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥ 6.117.23 ॥
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव।
विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥ 6.117.24 ॥
किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः।
निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम ॥ 6.117.25 ॥
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः।
नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥ 6.117.26 ॥
व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे।
न क्रुतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ॥ 6.117.27 ॥
सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता।
दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः ॥ 6.117.28 ॥
तदानय समीपं मे शीघ्रमेनां विभीषण।
सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ॥ 6.117.29 ॥
एवमुक्तस्तु रामेण सविमर्शो विभीषणः।
रामस्योपानयत् सीतां सन्निकर्षं विनीतवत् ॥ 6.117.30 ॥
ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः।
निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥ 6.117.31 ॥
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः।
अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥ 6.117.32 ॥
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली।
विभीषणेनानुगता भर्तारं साऽभ्यवर्तत ॥ 6.117.33 ॥
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि।
रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥ 6.117.34 ॥
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता।
उदैक्षत मुखं भर्तुः सौम्यं सोम्यतरानना ॥ 6.117.35 ॥
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य।
वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् ॥ 6.117.36 ॥